________________
ॐ
ॐ ह्रीं महं नमः ॥
॥ वर्तमानशासनाधिपति-श्रीमहावीरस्वामितीर्थकरेभ्यो नमः॥ ॥ अनन्तलग्धिनिधान-श्रीगौतमस्वामिगणधरेभ्यो नमः ॥
॥ गणसम्पत्समृद्ध-श्रीसुधर्मस्वामिगणधरेभ्यो नमः ॥ ॥ पूर्वधर-वाचकप्रवर-श्रीउमास्वातिभगवद्भ्यो नमः ॥ ॥ शासनसम्राटश्रीनेमिसूरीश्वरपरमगुरुभ्यो नमः ॥
॥ साहित्यसम्राट-श्रीलावण्यसूरीश्वरप्रगुरुभ्यो नमः ॥ * पूर्वधर-परमर्षि-सुप्रसिद्ध-श्रीउमास्वातिवाचकप्रवरेण विरचितम् *
# श्रीतत्त्वार्थाधिगमसूत्रम् ।
-तस्योपरिजैनधर्मदिवाकर-शास्त्रविशारद-साहित्यरत्न-कविभूषणेति पदसमलङ्कृतेन
श्रीमद्विजयसुशीलसूरिणा विरचिता 'सुबोधिका टीका' एवं तस्य सरलहिन्दीभाषायां विवेचनामृतम्
+ मंगलाचरणम् ॥
[शार्दूलविक्रीडित-वृत्तम्] नत्वा देवाधिदेवं सुरनरमहितं वर्धमानं जिनेन्द्र , वाग्देवी गौतमेशं गणधरप्रवरं श्रीसुधर्माभिधं च । स्मृत्वा विश्वे प्रसिद्धं परमगुरुवरं नेमिसूरीश्वरं वै , श्रीमल्लावण्यसूरि प्रगुरुप्रवरं सद्गुरु दक्षसूरिम् ॥१॥
__ [अनुष्टुब्-वृत्तम्] वाचकश्रीउमास्वाति : नाम्ना पूर्वधरेण वै। ख्यातं तत्त्वार्थसूत्रं यद्, सभाष्यं रचितं वरम् ॥ २॥ भाष्यानुसारिणी तस्य, लघुटीका 'सुबोधिका'। तत्त्वार्थसूत्रभाषायां, 'विवेचनामृतं' तथा ॥३॥ विज्ञप्त्या श्रीविनोदस्य, वाचकप्रवरस्य वै । जिनोत्तमस्य पन्यास, - वरस्यान्तिषदोऽपि च ॥ ४॥ देव-गुरुप्रसादाच्च, सुशीलसूरिणा मया । बालानां तत्त्वबोधार्थ, क्रियते कर्मक्षायिना ॥ ५॥