________________
६४ ] श्रीतत्त्वार्थाधिगमसूत्रे
[ १।३१ यह केवलज्ञान न जान सके । जैसे--पारसी-दर्पण में वस्तु-पदार्थ का प्रतिबिम्ब पड़ता है, वैसे ही निर्मल प्रात्मा में तीन काल के समस्त वस्तु-पदार्थों का तथा सर्व भावों का भी ज्ञानीगम्य प्रतिबिम्ब पड़ता है, जिससे केवली भगवन्त हाथ में रहे हुए आँवले की भाँति विश्वभर के सर्व द्रव्यों और तीन काल की उनकी सभी पर्यायों को जान सकते हैं तथा देख भी सकते हैं। इसी कारण से केवली भगवन्तों को 'सर्वज्ञ' कहने में आता है । ।३०।।
* एषां मतिज्ञानादीनां युगपदेकस्मिन् जीवे कति भवन्ति ? * एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्व्यः ॥ ३१ ॥
8 सुबोधिका टीका * एषां मतिज्ञानादीनां युगपदेकस्मिन् जीवे कति भवन्ति ? इति । कथ्यतेऽत्रएतेषु ज्ञानेषु मत्यादीनामारभ्य चतुःसङ्ख्याकमनःपर्ययज्ञान पर्यन्तं सहैव एकस्मिन् जीवे भवति । कस्यापि एकं, कस्यापि द्वे, कस्यापि त्रीणि, कस्यापि चत्वारि ज्ञानानि च भवन्ति । तस्य स्पष्टीकरणमाह
यस्य एकमेव ज्ञानं भवति, तस्य मतिज्ञानं अथवा केवलज्ञानं भवति । यस्य द्वे ज्ञाने भवतः तस्य मतिज्ञानं श्रुतज्ञानं च जायते । यतः श्रुतज्ञानं मतिज्ञानपूर्वकमेव जायते । अतः यत्र श्रतज्ञानं तत्र मतिज्ञानं भवत्येव, किन्तु यत्र मतिज्ञानं तत्र श्रतज्ञानं भवत्येव इति निश्चयो नास्ति । ज्ञानत्रयवतां मतिः श्रुतमवधिश्च अथवा मतिःश्रुतं मनःपर्ययज्ञानं च भवति । पञ्चज्ञानानि सहैव एकस्मिन् काले न भवन्ति । यतः यस्य केवलज्ञानं भवति तस्य अन्यत् किमपि ज्ञानं न तिष्ठति । अत्र कतिचिद् आचार्याः कथयन्ति-केवलज्ञानस्य स्थितिकालेऽपि अन्यानि मत्यादीनि चत्त्वारि ज्ञानानि अवश्य तिष्ठन्ति, किन्तु यथा सूर्यस्य प्रभायां (तेजसि) तारादीनां तेजांसि विलीयन्ते (अन्तर्भवन्ति) तथैव केवलज्ञानस्य प्रभायां अन्य ज्ञानस्य प्रभाः निस्तेजकाः भवन्ति ।
अन्ये च प्राचार्याः कथयन्ति यत् एतानि चत्वारि ज्ञानानि क्षयोपशमभावेन भवन्ति, किन्तु केवलिनः सः क्षयोपशमः भावः न भवति ! केवलिनः केवलं क्षायिकभाव एव वर्त्तते । अन्यं नास्ति एव । एतेषां चतुर्ज्ञानानां क्रमशः उपयोगो भवति, न तु युगपत् । केवलज्ञानस्य उपयोगः निरपेक्षः । आत्मनः एतद् स्वभावे नव ज्ञानदर्शनयोः समये-समये उपयोगः केवलिनां निरन्तरं भवति । किञ्चान्यत्-क्षयोपशमजानि पूर्वाणि चत्वारि ज्ञानानि क्षयादेव पञ्चमं केवलज्ञानम् । तस्माद् न केवलिनः शेषाणि ज्ञानानि भवन्तीति ॥ ३१ ॥