________________
तत्त्वार्थाधिगमसूत्रम् । [ ३ | सू० १७,१८।]
सिध्यन्ति नान्यत्र । अतो निर्वाणाय कर्मणः सिद्धिभूमयः कर्मभूमय इति । शेषास्तु विंशतिर्वशाः सान्तरदीपा अकर्मभूमयो भवन्ति । देवकुरूत्तरकुरवस्तु कर्मभूम्यभ्यन्तरा श्रप्यकर्मभ्रमय इति ॥
नृस्थितौ परापरे त्रिपल्योपमान्तर्मुहूर्ते ॥ १७ ॥
नरो नरा मनुष्या मानुषा इत्यनर्थान्तरम् । मनुष्याणां परा स्थितिस्त्रीणि पल्योपमान्यपरान्तर्मुहर्तेति
5
तिर्यग्योनौनां च ॥ १८॥
तिर्यग्योनिजानां च परापरे स्थितौ त्रिपल्योपमान्तर्मुहूर्ते भवतो यथासङ्ख्यमेव । पृथक्करणं यथासङ्ख्यदोष विनिवृत्त्यर्थम् | 10 इतरथा इदमेकमेव सूत्रमभविष्यदुभयत्र चोभे यथासङ्ख्यं? स्यातामिति || ||
द्विविधा चैषां मनुष्य तिर्यग्योनिजानां स्थितिः । भवस्थितिः कायस्थितिश्च । मनुष्याणां यथोक्ते त्रिपल्योपमान्तर्मुहूर्ते परापरे भवस्थितौ । कायस्थितिस्तु परा सप्ताष्टौ वा भवग्रहणानि ॥ 15 तिर्यग्योनिजानां च यथोक्ते समासतः परापरे भवस्थितौ । व्यासतस्तु शुद्धपृथिवीकायस्य परा द्वादश वर्षसहस्राणि । खर
* B तिर्यग्योनिजानां च । Not marked as a separate sútra either by A or C, and B and K do not number sûtras.
+ K पृथग्योगकरणं ।
1 K यद्येकमेव |
SK यथा for यथासङ्ख्यं ।
|| Comits from इतरथा to उभयत्र ।