________________
अथ तृतीयोऽध्यायः ॥
प्रवाह । उकं भवता। नारका इति गतिं प्रतौत्य जीवस्यौदविको भावः । तथा जन्मसु नारकदेवानामुपपातः । वक्ष्यति च। स्थितौ नारकाणां च द्वितीयादिषु । श्रास्रवेषु बहारम्भपरिग्रहत्वं च नारकस्यायुष? इति ॥ तत्र के नारका नाम क चेति । अत्रोच्यते । नरकेषु भवा नारकाः । तत्र । नरकप्रमियर्थमिदमुच्यते
रत्न-शर्करा-वालुका-पङ्क-धूम-तमो-महातम प्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधो ऽधः पृथुतराः॥१॥
रत्नप्रभा शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभा 10 तमःप्रभा महातमःप्रभा इत्येता। भूमयो घनाम्बुवाताकाशप्रतिष्ठा भवन्येकैकशः** सप्तधो ऽधः । रत्नप्रभाया अधः शर्कराप्रभा । शर्कराप्रभाया अधो वालकाप्रभा। इत्येवं शेषाः । अम्बुवाताकाशप्रतिष्ठा इति सिद्धे घनग्रहणं क्रियते यथा प्रतीयते घनमेवाम्बु अधः पृथिव्याः । वातास्तु घनास्तनवश्चेति । तदेवं 15
VI. 16.
|| K वेति ।
* II. 6. + II. 35. IV. 34. HTC omits इत्येता। .. ** S एकशः । ++ Kgfare here and elsewhere.
++
थिव्यां।