________________
अथ द्वितीयोऽध्यायः।
अत्राह। उक्तं भवता जीवादीनि तत्त्वानौति । तत्र को जौवः कथं वक्षणो वेति । अत्रोच्यते। औपशमिकक्षायिका भावा मिश्रश्च जीवस्य स्वतत्त्व
मौदयिकपारिणामिका च ॥१॥ 5 औपशमिकः क्षायिकः बायोपशमिक श्रौदयिकः पारिणामिक इत्येते पञ्च भावा जीवस्य स्वतत्त्वं भवन्ति । दिनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥२॥
एते औपशमिकादयः पञ्च भावा दिनवाष्टादशैकविंशतित्रिभेदा भवन्ति । तद्यथा । औपशमिको दिभेदः चायिको 10 नवभेदः क्षायोपशमिको ऽष्टादशभेदः औदयिक एकविंशतिभेदः पारिणमिकस्त्रिभेद इति। यथाक्रममिति येन सूत्रक्रमेणत अर्ध्वं वक्ष्यामः ।
सम्यक्कचारित्रे ॥३॥ सम्यक्त्रं चारित्रं च दावौपशमिको भावौ भवत इति । ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥
* K यथाक्रमम् A यथा।
+ K adds तद्यथा।
१ वा = and.
२ च शब्दात्मानिपातिकः ।