________________
[अ० १। सू० ३१।
प्रथमोध्यायः ।
२९
भावग्राहके निरपेक्षे केवखजाने केवलदर्शने चानुममयमुपयोगो द्वितीया । अव्ययीभावो वा विभक्त्यादिषु (पा० २ । १।६) वारंवारेणोपयोगो भवति इति यावत् । एकमिन्समये केवलज्ञानोपयोगे वृत्ते ततो ऽन्यस्मिन्केवलदर्शनोपयोग इति एवं सर्वकालमवसेयम् । यद्यपि केचित्पण्डितंमन्याः सूत्राण्यन्यथा5 कारमर्थमाचक्षते तर्कबलात्तु विशुद्धबुद्धयो वारंवारेणोपयोगी
नास्तीति तत्तु न प्रमाणयामः । यत श्राबाये भूयांसि सूत्राणि वारंवारेणोपयोगं प्रतिपादयन्ति ।
नाणंमि दंमणमि य एक्को एगतरगम्मि उवउत्ता। तथा
सव्वस्म केवलिस्म वि जुगवं दो पत्थि उवोगा ॥ 10 इत्यादौनि। अथैवं मन्येथाः सूत्राणमेषामन्य एवार्थो ऽन्य
एवाव्युत्पन्नबुद्धिभिराख्यायत इत्येतदपि दुःश्रद्धानं । यतः सत्यं सूत्राण्यन्धपुरुषस्थानानि* सुधिया ग्रहौतानि शक्नुवन्यथै ख्यापयितम्। यथा श्वेतो धावतीत्यादि एवं विधेषु च सूत्रेववश्य
मात्रसंप्रदाय एवान्वेषणीयो भवति स चाविच्छेदेनार्थसंप्रदायः 15 समस्तश्रुतधरादधिकारिणः परिप्लवमानो मुनिपरम्परया
यावदोत्यागमादविगणनेन वारंवारमित्यभ्युपेयते। (वारंवारेणोपयोग इति कुतः पुनरर्थागमो ऽकस्मादुपयोगवादिनः खत एव चेत्प्रेक्षितः खमनीषिका सिद्धान्तविरोधिनी न प्रमाणमित्यभ्युपेयते)। अथागमात्प्रदर्शनीयस्त_सौ तस्माद्यत्किंचिदेतदिति ।
* U स्थानीयानि ।
+ U परिलवमानो। + U omits words in the brackets.