________________
तत्त्वार्थाधिगमसूत्रम् । [.१। सू० २८-३०]
रूपिष्ववधेः ॥ २८॥ रूपिम्वेव द्रव्येष्ववधिज्ञानस्य विषयनिबन्धो भवति असर्वपर्यायेषु । सुविश्रद्धेनाप्यवधिज्ञानेन रूपोण्येव* द्रव्याण्यवधिज्ञानी जानीते तान्यपि न सर्वैः पर्यायैरिति ॥
तदनन्तभागे मनःपर्यायस्य ॥२६॥ यानि रूपौणि द्रव्याण्यवधिज्ञानी जानौते ततोऽनन्तभागे मनःपर्यायस्य विषयनिबन्धो भवति । अवधिज्ञानविषयस्यानन्तभागं मनःपर्यायज्ञानी जानीते रूपिद्रव्याणि मनोरहस्यविचारगतानि च? मानुष/क्षेत्रपर्यापनानि विशुद्धतराणि चेति ॥
सर्वद्रव्यपर्यायेषु केवलस्य ॥ ३० ॥-- 10 सर्वद्रव्येषु सर्वपयार्येषु चा केवलज्ञानस्य विषयनिबन्धो भवति। तद्धि सर्वभावग्राहकं मंभित्रलोकालोकविषयम् । नातः परं ज्ञानमस्ति । न च केवलज्ञानविषयात्परं किंचिदन्यज्ञेयमस्ति । केवलं परिपूर्ण समग्रमसाधारणं निरपेक्षं विशुद्धं सर्वभावज्ञापकं लोकालोकविषयमनन्तपर्यायमित्यर्थः ॥ 18
अत्राह । एषां मतिज्ञानादौनां युगपदेकस्मिनौवे कति भवन्तीति । अत्रोच्यते ।
* K रूपाप्येव । S S omits च।
+ K रूपाणि । || K मनुष्य ।
+ रूपद्रयाणि । Tomits च।
१ SH पर्यापन्नानि = व्यवस्थितानि । २ यदप्रकाशितं केवलेनेति ।