________________
२४
तत्वाचाधिगमसूत्रम् । [.५।सू. २४-२६ ।]
न प्रतिपतत्या केवलप्राप्तः* श्रा भवक्षयादा जात्यन्तरस्थायि वा भवति खिङ्गवत् ॥ उक्रमवधिज्ञानम् । मनःपर्यायज्ञानं वक्ष्यामः ।
करजुविपुलमती मनःपर्यायः॥ २४ ॥ मनःपर्यायज्ञानं दिविधम् । सुजुमतिमनःपर्यायज्ञानं विपुल- 5 मतिमनःपर्यायज्ञानं च ॥ अत्राह। कोऽनयोः प्रतिविशेष इति । अनौच्यते ।
विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥ २५ ॥ विशुद्धिकृतश्चाप्रतिपातकृतश्चानयोः प्रतिविशेषः । तद्यथा । सुजुमतिमनःपर्यायाधिपुलमतिमनःपर्यायज्ञानं विशुद्धतरम। 10 किं चान्यत् । ऋजुमतिमनःपर्यायज्ञानं प्रतिपतत्यपि भूयो' विपुलमतिमनःपर्यायज्ञानं तु न प्रतिपततौति ॥ .
अचाह । अथावधिमनःपर्यायज्ञानयोः कः प्रतिविशेष इति । प्रचोच्यते। विशुद्विवेचस्वामिविषयेभ्योऽवधिमनःपर्याययोः॥२६॥ 15
विशुद्धिकृतः क्षेत्रकृतः खामिकृतो विषयातश्चानयोर्विशेषो भवत्यवधिमनःपर्यायज्ञानयोः। तद्यथा। अवधिज्ञानान्मन:पर्यायज्ञानं विशुद्धतरम्। यावन्ति हि रूपाणिर्णा द्रव्याण्यवधिज्ञानौ जानौते तानि मनःपर्यायज्ञानी विशुद्धतराणि * B & K add अवनिष्ठवे ।
+ B C पौणि। १ भूयः = पुनः to be construed with what follows.