________________
36
APPENDIX O. - -
वृताः । दामघण्टालम्बूषघण्टिकाष्टमङ्गलतोरणध्वजवन्ति तपनीयरुचिररजोवालुकाप्रस्तृतानि षोडशपूर्णकलशादिभूषितानि आयतनमानमुखमण्डपप्रेक्षामण्डपाक्षपाटकमणिपीठिकास्तूपप्रतिमाचैत्य - चेन्द्रध्वजपुष्करिणौक्रमरचनानि नानामणिमयानि । तेभ्यः प्रत्येक चतुर्दिक्षु लक्षमानाः पुष्करिण्यो नन्दिषणामोधागोस्वपासुदर्शनानन्दोत्तरानन्दासुनन्दानन्दिवर्धनाभद्राविशालाकुमुदापुण्डरीकिणे - विजयावैजयन्तीजयन्तापराजिताः प्राकुमात् । तन्मध्ये स्फाटिका दधिमुखा ललामवेदिकोद्यानादिलाञ्छनाश्चतुःषष्टिसहस्रोच्चाः दशाधो विस्तताः तावदुपरि । तेवञ्जनवदायतनानि । द्वौपविदिक्षु रतिकरकाश्चत्वारो दशसहसायामविष्कम्भाः सहस्रोच्चाः सर्वरत्नमयाः झल्लाकृतयः । तत्र दक्षिणयोरिन्द्रस्योत्तरयोरीणानस्याष्टाष्टानां महादेवीनां योजनशतसहस्राबाधास्थाना राजधान्यो दिक्ष सुजाता सौमनमा अर्चिलो प्रभाकरा पद्मा शिवा शुचिः अञ्जना भूता भूतावतंमा गोस्तुपा सुदर्शना ऽमला ऽमरा रोहिणी नवमौ नाम रत्ना रत्नोच्छ्रया सर्वरत्ना रत्नसंचया वसुर्वसुमित्रा वसुभागा वसुंधरा नन्दोत्तरा नन्दा उत्तरकुरुर्देवकुरुः कृष्णा कृष्णराजी रामा रामरक्षिता नाम प्रारदक्षिणक्रमात् । तत्र देवाः सर्वसंपदन्तः स्वपरिवारानुगताः निजपरिकरपरिवृताः पुण्यतिथिषु सुरासुरविद्याधरादिपूजितानां जिनानामायतनेवाष्टाहिकौपूजाः कुर्वन्ति प्रमुदितमनसः ॥
(इति नन्दीश्वरदीपः) इति तृतीयमाहिकं समाप्तम् ॥