________________
26
APPENDIX C
जतो विजयाव्यः खविस्ताररहितभारतमानार्धदक्षिणोत्तरविभागी उभयतो वेदिकावनखण्डवान् । तदपरभागे तमिस्रागुहा गिरिविस्तारायामा द्वादशाष्टविस्तारोच्छाया विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता कृतमालकदेववसतिर्बहुमध्यद्वियोजनान्तरत्रियोजनविस्तारोन्ममनिममजलाख्यमरिदतौ । तद्वत्पूर्वतः खण्डप्रपातागुहा नृत्तमालकवमतिः । तत्र दशयोजनान्यारुह्योभयतो विद्याधरश्रेण्यौ दशकविस्तृते पर्वतायामे मवेदिकावनखण्डे । तत्र दक्षिणा सजनपदरथनूपुरचक्रवालप्रमुखपञ्चाशनगरवतौ विचित्रमणिपुष्करिएयुद्यानक्रीडास्थानविभूषिता । तथोत्तरा गगनवल्लभपुरस्मरषष्टिनगरा । तत्र विद्याप्रसादोपहिताभौष्टभोगभुजो विद्याधराः। ततो दशसु तददाभियोग्यश्रेण्यौ समातिरम्यभूमौ इन्द्रलोकपालाभियोग्यभवनालंकृते तदाश्रये । ततः पञ्चसु शिखरतलं दशकविस्तृतं वेदिकावनवद तिरुचिरं देवक्रीडास्थानम् । तत्र नवकूटानि सिद्धायतन- दक्षिणार्धभरत- खण्डप्रपात- माणिभद्र- विजयाय- पूर्णभद्रतमिस्रा-गुहोत्तरार्धभरत-वैश्रवणा ख्यानि प्राकमागण्यानि गिरिपादोच्छ्रायाणि तावन्मलविस्ताराणि उपरि तदधं सर्वरत्नमयानि मध्ये बौणि कनकमयानि । तत्र च प्रथमे सिद्धायतनं क्रोशार्धक्रोशर्यविस्तारं किंचिन्यूनतदुच्छ्रयं रत्नचित्रालोकं पञ्चधनुः शततदर्धा?च्छ्रायविस्तारप्रवेशत्रिद्वारं न पश्चात् । उभयतः पद्मस्थ पूर्णकलन-नागदन्तक-शालभञ्जिका-जालकटक-घण्टा-वनमालाक्रमरचनानि । तन्मध्ये मणिपीठिका पञ्चधनुःशतायामविष्कम्भा तदर्ध
• वैश्रमण।