________________
[अ० १० । सू० ५, ६ । ] - दशमोऽध्यायः ।।
२१५ औपशमिकक्षायिकक्षायौपशमिकौदयिकपरिणामिकानां* भावानां भव्यत्वस्य चाभावान्मोक्षो भवति अन्यत्र केवलसम्यक्तकेवलज्ञानकेवलदर्शनसिद्धत्वेभ्यः । एते ह्यस्य नायिका नित्यास्तु। मुक्तस्यापि भवन्ति ॥ 5 तदनन्तरमूर्ध्व गच्छत्यालोकान्तात् ॥५॥
तदनन्तरमिति कृत्स्नकर्मक्षयानन्तरमौपशमिकाद्यभावानन्तरं चेत्यर्थः । मुक्त ऊर्ध्व गच्छत्यालोकान्तात् । कर्मक्षय देहवियोगसिध्यमानगतिलोकान्तप्राप्तो? ऽम्य युगपदेकसमयेन
भवन्ति । तद्यथा । प्रयोगपरिणामादिसमुत्थस्य गतिकर्मण 10 उत्पत्तिकार्यारम्भविनाशा युगपदेकसमयेन भवन्ति तदत् ॥
अत्राह । प्रहोणकर्मणे निरास्रवस्य कथं गतिर्भवतीति । अत्रोच्यते
पूर्वप्रयोगादसङ्गत्वाबन्धच्छेदात्तथागतिपरिणामाच्च तहतिः ॥६॥ 15 पूर्वप्रयोगात्। यथा हस्तदण्डचक्रसंयुक्तसंयोगात्पुरुषप्रयत्नत
श्वाविद्धं कुलालचक्रमुपरतेम्वपि पुरुषप्रयत्नहस्तदण्डचक्रसंयोगेषु
* K चौपशमिकक्षायोपशमिकौदयिकानां च, D क्षायोपशमिक, B पारिणामिकादौना।
+ D omits तु। * Var s कर्मक्षयदेहवियो०, D कर्मक्षयात्, D सिद्यमान here and here
after
--
DC add ff