________________
२१२
तत्त्वाधीधिगमसूत्रम्। मिसासू० 86 1],
तिषु देवेषु सर्वार्थमिद्धे । -सर्वेषामपि जघन्या पल्योपमपृथक्कस्थितिषु सौधर्म । स्नातकस्य निर्वाणमिति ॥ 5
स्थानम् । असोयानि संयमस्थानानि कषाय निमित्तानि भवन्ति । तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाककषायकुशीलयोः । तौ युगपदमङ्ख्येयानि स्थानानि गच्छतः। ततः पुलाको व्युच्छिद्यते कषायकुशौलस्वमङ्ख्येयानि स्थानान्येकाकी गच्छति। ततः कषायकुगौलप्रतिसेवनाकुशौलबकुमा युगपदमङ्ख्येयानि 10 संयमस्थानानि गच्छन्ति । ततो बकुशो व्युच्छिद्यते । ततो ऽसङ्ख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशौलो युच्छिद्यते। ततो ऽमङ्ख्येयानि स्थानानि गत्वा कषायकुशौलो व्युच्छिद्यते । अत ऊर्ध्वमकषायस्थानानि निर्गन्थः प्रतिपद्यते । सो ऽप्यमद्ध्येयानि स्थानानि गत्वा व्युच्छिद्यते । अत ऊर्ध्वमेकमेव स्थानं गत्वा 15 निर्ग्रन्थस्नातको निर्वाणं प्राप्नोतौति || एषां संयमलब्धिरनन्तानन्तगुणा भवतीति ॥
इति तत्त्वार्थाधिगमे ऽहत्प्रवचनमय हे
नवमोऽध्यायः समाप्तः ॥
* D व्यवविद्यते। + C omits एकम्।
+ D संथमस्थानानि । $ C एतेषाम्।