________________
[अ० ६ । सू० ११ - १६ ।] नवमोऽध्यायः ।
एकादश जिने ॥ ११॥ एकादश परोषहाः संभवन्ति जिने वेदनौयाश्रयाः । तद्यथा । चुत्पिपामाशीतोष्णदंशमशकचर्याशय्यावधरोगहणस्पर्शमलपरोषहाः।
बादरसंपराये सर्वे ॥ १२॥ बादरसंपरायसंयते सर्वे द्वाविंशतिरपि परोषहाः संभवन्ति ।
ज्ञानावरणे प्रज्ञाज्ञाने ॥ १३ ॥ ज्ञानावरणोदये* प्रज्ञाज्ञानपरोषहौ भवतः ।
दर्शनमोहान्तराययोरदर्शनालाभौ ॥१४॥ 10 दर्शनमोहान्तराययोरदर्शनालाभौ यथासङ्ख्यं दर्शनमोहोदये ऽदर्शनपरोषहः लाभान्तरायोदये ऽलाभपरोषहः ।
चारित्रमोहे नान्यारतिस्त्रौनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥ १५ ॥
चारित्रमोहोदये एते नान्यादयः सप्त परोषहा भवन्ति । 15
वेदनीये शेषाः ॥ १६ ॥ वेदनौयोदये शेषा एकादश परोषहा भवन्ति ये जिने संभवन्तीत्युकम्। कुतः शेषाः। एभ्य: प्रज्ञा ज्ञानादर्शनालाभनाग्न्यारतिस्त्रौनिषद्याक्रोशयाचनासत्कारपुरस्कारेभ्य इति ।
* D ज्ञानावरणीयोदये।
+ AC omit this : whole S not clear.