________________
१०४
तत्त्वार्थाधिगमसूत्रम्।
[.सू.१२ ।
पञ्च । तपथा । एकेन्द्रियजातिनाम दौन्द्रियजातिनाम चौन्द्रियजातिनाम चतुरिन्द्रियजातिनाम पञ्चेन्द्रियजातिनामेति ॥ एकेन्द्रियजातिनामानेकविधम् । तद्यथा । पृथिवीकायिकजातिनाम अप्कायिकजातिनाम तेजःकायिकजातिनाम वायुकायिकजातिनाम वनस्पतिकायिकजातिनामेति ॥ तत्र पृथिवी- । कायिकजातिनामानेकविधम् । तद्यथा । द्धपृथिवी-पार्करावालुकोपल-शिला-लवणायस्त्रपु-ताम्र-मौसक-रूप्य-सुवर्ण-वज्रहरिताल-हिङ्गलका-मनःशिला-सस्थकाअनप्रवालकाभ्रपटलाभवालिका जातिनामादि गोमेदक-रुचकाङ्क-स्फुटिकलोहिताक्ष-अलावभास-वैडुर्य-चन्द्रप्रभ गा-चन्द्रकान्त-सूर्यकान्त- 10 जलकान्त-मसारगला**मगर्भ-सौगन्धिक-पुलकारिष्ट-काजनमणिजातिनामादि च ॥ अप्कायिकजातिनामानेकविधम् । तद्यथा । उपल्लेदावश्याय-नौहार-हिम-घनोदक-शुद्धोदकजातिनामादि ॥ तेजःकायिकजातिनामानेकविधम् । तद्यथा । अङ्गार-ज्वाला-लातार्चिमुर्मुर-हाग्निजातिनामादि ॥ वायु- 15 कायिकजातिमामानेकविधम् । तद्यथा। उत्कलिका-मण्डलिकाझञ्झकाथना-संवर्तकजातिनामादि ॥ वनस्पतिकायिकजातिनामानेकविधम् । तद्यथा । कन्द-मूल-स्कन्ध-त्वक्-काष्ठ
* K omits इति। + D हिलकं। बभ्रवालका । $ DA and C स्फटिक। || K जाला। K omits चन्द्रप्रभ । ** C गत्व। D धन। + D स्कन्द for कन्द ।