________________
[ ० १० ।] का
टमोऽध्यायः ।
दर्शनचारिचमोहनौयकषायनो कषायवेदनीयाख्यास्त्रिद्दिषोडशनवभेदाः* सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषाया 'वनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोधमानहास्यरत्यरतिशोकभयजुगुप्सा स्त्रीपुं
5 मायालोभाः
नपुंसकवेदाः ॥ १० ॥
१६६
त्रिद्विषोडशनवभेदा यथाक्रमम् ? | मोहनीयबन्धो द्विविधो दर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च । तत्र दर्शनमोहनौयाख्यस्त्रिभेदः । तद्यथा । मिथ्यात्ववेदनीयं सम्यक्कवेदनीयं 10 सम्यग्मिथ्यात्ववेदनीयमिति । चारित्रमोहनीयाख्यो द्विभेदः कषायवेदनीयं नोकषायवेदनीयं चेति । तत्र · कषायवेदनौयाख्यः षोडशभेदः । तद्यथा । अनन्तानुबन्धी क्रोधो मानो माया लोभ एवमप्रत्याख्यानकषायः प्रत्याख्यानावरणकषायः संज्वलनकषाय || इत्येकशः • क्रोधमानभाया लोभाः षोडश 15 भेदाः ॥ नोकषायवेदनीयं नवभेदम् । तद्यथा । हास्यं रतिः अरतिः शोकः भयं जुगुप्ता पुरुषवेद: स्त्रीवेदः नपुंसकवेद इति नोकषायवेदनीयं नवप्रकारम् । तत्र पुरुषवेदादीनां **
* K adds यथाक्रमम् ।
+ DC कषायाकषायौ and K omits it.
‡ K and C separate जुगुसाः स्त्रींपु० । § BK omit this whole.
|| C संज्वलनकषायवेदनीयं चेति and omits from इत्येक० to भेदाः ।
S probably omits from नोकषाय to प्रकारम् ।
** C पुरुषवेदनादौनां ।
22