________________
[० ८ । सू० २ - ६ ] अष्टमोऽध्यायः ।
सकषायत्वाज्जौवः कर्मणो योग्यान्पुद्गलानादत्ते ॥ २ ॥
मकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलान् श्रादत्ते । कर्मयोग्यानिति* अष्टविधे। पुद्गलग्रहण कर्मशरीरग्रहणयोग्या5 नित्यर्थः । नामप्रत्ययाः सर्वतो योगविशेषादिति वक्ष्यते
[VIII. 25] ।।
स बन्धः ॥ ३ ॥
म एष कर्मशरीरपुद्गलग्रहणकृतो बन्धो भवति । स पुनश्चतुर्विधः ।
10
प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ॥ ४ ॥
प्रकृतिबन्धः स्थितिबन्धः अनुभावबन्ध. प्रदेशबन्ध इति । तत्र आद्यो ज्ञानदर्शनावरणवेदनौयमोहनौयायुष्कनामगोचान्तरायाः ॥ ५ ॥
श्रद्य इति सूत्रक्रमप्रामाण्यात्प्रकृतिबन्धमाह । सो ऽष्टविधः । तद्यथा । ज्ञानावरणं दर्शनावरणं वेदनीयं मोहनीयं श्रायुष्क 15 नाम गोचं अन्तरायमिति ।
किं चान्यत्
१६७
पञ्चनवद्यष्टाविंशतिचतुर्द्विचत्वारिंशद्दिपञ्चभेदा यथाक्रमम् ॥ ६ ॥
* S perhaps omits this. C कर्मणो योग्यानिति । + B अष्टविधपुद्गलग्रहणे ।