________________
[अ० १। सू० ४, ५]
प्रथमोऽध्यायः ।
बन्ध निकाचनोदयनिर्जरापेक्षं *नारकतिर्यग्योनिमनुष्यामरभव. ग्रहणेषु विविधं पुण्यपापफलमनुभवतो ज्ञानदर्शनोपयोगखाभाव्यात् तानि तानि परिणामाध्यवसायस्थानान्तराणि गच्छतोऽनादिमिथ्यादृष्टेरपि मतः परिणामविशेषादपूर्वकरणं 5 तादृग्भवति येनास्यानुपदेशात्सम्यग्दर्शनमुत्पद्यत इत्येतनिसर्ग
सम्यग्दर्शनम् ॥ अधिगमः अभिगमः श्रागमो निमित्तं श्रवणं शिक्षा उपदेश इत्यनर्थान्तरम् । तदेवं पिरोपदेशाद्यत्तत्त्वार्थ. श्रद्धानं भवति तदधिगमसम्यग्दर्शन मिति ॥
अत्राह। तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्युक्रम् । तत्र किं 10 तत्त्वमिति । अत्रोच्यते ।
जौवाजीवासवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥ ४ ॥ __ जौवा अजौवा पासवा|| बन्धः संवरो निर्जरा मोक्ष इत्येष सप्तविधोऽर्थस्तत्त्वम् । एते वा मप्त पदार्थास्तत्त्वानि ।
ताँ लक्षणतो विधानतश्च पुरस्ताद्विस्तरेणोपदेच्यामः ॥ 15 नामस्थापनाद्रव्यभावतस्तन्यासः॥५॥
एभिर्नामादिभिश्चतुर्भिरनुयोग द्वारैस्तेषां जीवादीनां तत्त्वानां न्यासो भवति । विस्तरेण लक्षणतो विधानतश्चाधि
* K नरक।
+ K puts यद् before परोपदे । + K नचं किमिति। I. 2. || B चासवो। १ अनुयोगः सकलगणिपिटकार्थोऽभिधीयते ॥ तस्य दाराणि तस्या
र्थस्याधिगमोपाया इत्यर्थः ।