________________
११६
तत्त्वार्थाधिगमसूत्रम् । [५० । सू. इह-४२]
5
विजयादिषु चतुर्वप्येकेनाधिका द्वात्रिंशत् । साप्येकमाधिका सर्वार्थसिद्ध त्रयस्त्रिंशदिति ॥ __ अत्राह । मनुष्यतिर्यग्योनिनानां परापरे स्थिती व्याख्याते । अथौपपातिकानां किमेकैव स्थितिः परापरे न विद्यते इति । अत्रोच्यते
अपरा पल्योपममधिकं च ॥ ३८ ॥ सौधर्मादिष्वेव यथाक्रममपरा स्थितिः पल्योपममधिकं च । अपरा जघन्या निकृष्टेत्यर्थः । परा प्रकृष्टा उत्कृष्टत्यनर्थान्तरम्। तत्र सौधर्मे ऽपरा स्थितिः पल्योपममैशाने पल्योपममधिकं च ॥
10
सागरोपमे ॥ ४० ॥ मनत्कुमारे ऽपरा स्थिति सागरोपमे ।।
अधिके च ॥४१॥ माहेन्द्रे जघन्या स्थितिरधिके वे सागरोपमे ॥
परतः परतः पूर्वा पूर्वानन्तरा ॥४२॥ माहेन्द्रात्परतः पूर्वा परानन्तरा जघन्या स्थितिर्भवति । 15 तद्यथा । माहेन्द्र परा स्थितिर्विशेषाधिकानि सप्त मागरोमाणि मा ब्रह्मलोके जघन्या भवति। ब्रह्मलोके दश सागरोपमाणि
* C बजघन्योत्कृष्टा + C कटा। + C सानत्कुमारे। $ B D only परतः oncel | C पूर्वा D पूर्वा पर्वा परानकारा।