________________
१०२
तत्त्वार्थाधिगमसूत्रम्।
[य० । सू०१४।]
दति। द्योतयन्त इति द्योतौषि विमानानि तेषु भवा ज्योतिष्का ज्योतिषो वा देवा ज्योतिरेव वा ज्योतिष्काः। मुकुटेषु शिरोमुकुटोपगूहितैः* प्रभामण्डलकल्यैरुज्वलैः सूर्यचन्द्रतारामण्डलैयथाखं चिन्हैर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्तौति ॥ 5
मेरुप्रदक्षिणानित्यगतयो तृलोके ॥ १४॥ मानुषोत्तरपर्यन्तो मनुष्यलोको इत्युक्तम् [III. 14.] । तस्मिउज्योतिष्का मेरुप्रदक्षिणानित्यगतयो भ्रमन्ति। मेरोः प्रदक्षिणा नित्या गतिरेषामिति मेरुप्रदक्षिणानित्यगतयः। एकादशखेकविशेषु योजनशतेषु मेरोश्चतुर्दिशं प्रदक्षिणं चरन्ति । तत्र द्वौ 10 सूर्यो जम्बधौपे लवणजले चत्वारो धातकोखण्डे दादश कालोदे वाचत्वारिंशत्पुष्कराध द्विसप्ततिरित्येवं मनुष्यलोके द्वात्रिंशत्सूर्यशतं भवति । चन्द्रमसामप्येष एव विधिः । अष्टाविंशतिर्नक्षत्राणि अष्टाशौतिग्रहाः षट्षष्टिः सहस्राणि नव शतानि पञ्चसप्ततानि ताराकोटाकोटीनामेकैकस्य चन्द्रमसः परिग्रहः । 15 सूर्याश्चन्द्रमसो ग्रहा नक्षत्राणि च तिर्यग्लोके शेषास्तू लोके ज्योतिष्का भवन्ति । अष्टचत्वारिंशद्योजनकषष्ठिभागाः सूर्य* D शिरोमुकुटोपगू हिभिः। + D मानषोत्तरपयन्ते मनुष्यलोके इत्यनम् ।
$ D द्वात्रिंशं सूर्यशंत । || D नाराकोटीकोटौनां । B तारकाः कोटाकोटौनां ।।
१ शेघास्तु प्रकीर्णतारका ऊर्ध्वलोके भवन्तीत्याचार्य एवेदमवगच्छति । नत्वार्षमेवमवस्थितं सर्वज्योतिठकाणां तिर्यग्लोकव्यवस्थानादिति। Hशेषास्तू लोके ज्योतिष्काः तारालक्षणा इति वृत्तिकाराभिप्रायः तदाहुश्रुत्यादविरुद्ध एव । अछादशयोजनशतोच्छितत्वे ऽपि तिर्यग्लोकस्याध उर्ध्वदिग्भावो भयत्यविरोधात् ॥
*
++
D भवन्ति।