________________
गुरुस्तुतिः।
सूरेः श्रीविजयादिसिंहसुगुरोः पट्टाचलाहर्मणः । साधयं बिभरांवभार भुवि यो भास्वत्प्रभावोऽनिशम् ॥ स्फूर्जप्रौढतरप्रबुद्धिविभवो विद्वद्गणेनेडितः । पंन्यासो वितनोतु सत्यविजयो मोदं सतां चेतसि ॥१॥
अज्ञानातिधनांधकारपटल ज्ञानांशुाभानदलन् । पापात्मावलिसंल्लसत्कुमुदिनीसंकोचमापादयन् ।। तेजःपुञ्जसितीकृतक्षितितलो यः सर्वदा योतते । वन्देऽहं तमहस्करं हि सततं श्रीनीतिसूरीश्वरम् ॥२॥ बाल्ये येन कृतारिषटकविजये-मासाद्य दीक्षां गुरोः । पार्श्वे सूरिविभूषणस्य वसता शास्त्राब्धिरलंधितः ॥ नीतेः पट्टविभूषकोज्ज्वलकरः सूरीशचूडामणेः । सोऽयं ज्ञानतपोनिधिर्विजयतां श्रीहर्षसूरीश्वरः ॥३॥