________________
द्वितीयोऽध्यायः । अत्राह । औदारिकमित्येतदादीनां शरीरसंज्ञानों कः पदार्थ इति । अत्रोच्यते । उद्गतारमुदारम् । उत्कटारमुदारम् । उद्गम एवं वोदारम् । उपादानात्प्रभृति अनुसमयमुद्गच्छति वर्धते जीर्यते शीर्यते परिणमतीत्युदारम् । उदारमेवौदारिकम् । नैवमन्यानि ॥ यथोद्गमं वा निरतिशेष ग्राह्यं छेद्यं भेद्यं दाह्यं हार्यमित्युदारणादौदारिकम् । नैवमन्यानि उदारमिति च स्थूलनाम । स्थूलमुद्गतं पुष्टं बृहन्महदित्युदारमेवौदारिकम् । नैवं शेषाणि । तेषां हि परं परं सूक्ष्ममित्युक्तम् ॥ __ वैक्रियमिति । विक्रिया विकारो विकृतिर्विकरणमित्यनान्तरम् विविधं क्रियते।एकं भूत्वानेकं भवति।अनेकं भूत्वा एकं भवति। अणु भूत्वा महद्भवति ।महच्च भूत्वाणु भवति। एकाकृति भूत्वानेकाकृति भवति । अनेकाकृति भूत्वा एकाकृति भवति । दृश्यं भूत्वादृश्यं भवति । अदृश्यं भूत्वा दृश्यं भवति । भूमिचरं भूत्वा खेचरं भवति । खेचरं भूत्वा भूमिचरं भवति । प्रतिघाति भूत्वाप्रतिघाति भवति । अप्रतिघाति भूत्वा प्रतिघाति भवति । युगपञ्चैतान् भावाननुभवति । नैवं शेषाणीति । विक्रियायां भवति विक्रियायां जायते विक्रियायां निर्वय॑ते विक्रियैव वा वैक्रियम् । ____ आहारकम् । आहियत इति आहार्यम् । आहारकमन्तर्मुहूर्तस्थिति । नैवं शेषाणि ॥
तेजसो विकारस्तैजसं तेजोमयं तेजःस्वतत्त्वं शापानुग्रहप्रयोजनम् । नैवं शेषाणि ।
कर्मणो विकारः कर्मात्मकं कर्ममयमिति कार्मणम् । नैवं शेषाणि। एभ्य एव चार्थविशेषेभ्यः शरीराणी नानात्वं सिद्धम् । किं
१ घटपटादीनामिव लक्षणभेदात् ।
..