SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः। दीनामाहरणवारणसमर्थ उत्तरगुणनिर्वर्तनानिवृत्तो द्रव्यविशेषस्तस्मिबेकस्मिन्विशेषवति तज्जातीयेषु वा सर्वेष्वविशेषात्परिज्ञानं नैगमनयः। एकस्मिन्वा बहुषु वा नामादिविशेषितेषु साम्प्रतातीतानागतेषु घटेषु सम्प्रत्ययः सङ्ग्रहः । तेष्वेव लौकिकपरीक्षकग्राह्येषूपचारगम्येषु यथास्थूलार्थेषु संप्रत्ययो व्यवहारः । तेष्वेव सत्सु साम्प्रतेषु संप्रत्यय ऋजुसूत्रः । तेष्वेव साम्प्रतेषु नामादीनामन्यतमग्राहिषु प्रसिद्धपूर्वकेषु घटेषु सम्पत्ययः साम्पतः शब्दः । तेषामेव साम्पतानामध्यवसायासक्रमो वितर्कध्यानवत् समभिरूढः। तेषामेव व्यञ्जनार्थयोरन्योन्यापेक्षार्थग्राहित्वमेवम्भूत इति ॥ ___ अत्राह । एवमिदानीमेकस्मिन्नर्थेऽध्यवसायनानात्वान्ननु विप्रतिपत्तिप्रसङ्ग इति । अत्रोच्यते । यथा सर्वमेकं सदविशेषात् सर्व द्वित्वं जीवाजीवात्मकत्वात् सर्व त्रित्वं द्रव्यगुणपर्यायावरोधात् सर्व चतुष्वं चतुर्दर्शनविषयावरोधात् सर्व पञ्चत्वमास्तिकायावरोधात् सर्व षट्वं षद्रव्यावरोधादिति । यथैता न विप्रतिपत्तयोऽथ चाध्यवसाय १ उत्तरोत्तरगुणाः पाकजरक्तादिगुणास्तेषां निर्वर्तना परिसमाप्तिस्तत्संपन्नः । २ चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपाणि चत्वारि दर्शनानि । तत्रचक्षुषा दर्शनं वस्तुसामान्यांशात्मकं ग्रहणं चक्षुर्दर्शनम् । अचक्षुषा चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनसा च यद्दर्शनं सामान्यांशात्मकं ग्रहणं तदचक्षुर्दर्शनम् । अवधिना रूपिद्रव्यमर्यादया दर्शनं सामान्यांशग्रहणमवधिदर्शनम् । केवलेन सम्पूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यद्दर्शनं सामान्यांशग्रहणं तत्केवलदर्शनमिति । ३ अस्तीत्ययं त्रिकालवचनो निपातः अभूवर भवन्ति भविष्यन्ति चेति भावना। अतोऽस्ति च ते प्रदेशानां (प्रदेशः परमनिकृष्टोऽशः) कायाश्च राशय इति अस्तिशब्देन प्रदेशप्रदेशाः क्वचिदुच्यन्ते ततश्च तेषां वा काया अस्तिकायाः । ते च पञ्च १ धर्मास्तिकायः २ अधर्मास्तिकायः ३ आकाशास्तिकायः ४ जीवास्तिकायः ५ पुद्गलास्तिकायः । इति । ४ धर्माधर्माकाशपुद्गलजीवाः कालश्चेति षड्द्रव्याणि ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy