SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्वार्थाधिगमसूत्रेषु तीर्थप्रवर्तनफलं यत्प्रोक्तं कर्म तीर्थकरनाम ।। तस्योदयात्कृतार्थोऽप्यहंस्तीर्थं प्रवर्तयति ॥९॥ तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोकम् । तीर्थप्रवर्तनाय प्रवर्तते तीर्थकर एवम् ॥ १०॥ यः शुभकर्मासेवनभावितभावो भवेष्वनेकेषु । जज्ञे ज्ञातेक्ष्वाकुषु सिद्धार्थनरेन्द्रकुलदीपः ॥ ११ ॥ ज्ञानैः पूर्वाधिगतैरप्रतिपतितैर्मतिश्रुतांवधिभिः । त्रिभिरपि शुद्धैर्युक्तः शैत्यद्युतिकान्तिभिरिवेन्दुः ॥१२॥ शुभसारसत्त्वसंहननवीर्यमाहात्म्यरूपगुणयुक्तः । जगति महावीर इति त्रिदशैर्गुणतः कृताभिख्यः ॥१३॥ स्वयमेव बुद्धतत्त्वः सत्त्वहिताभ्युद्यताचलितसत्त्वः । अभिनन्दितशुभसत्त्वः सेन्द्रैलॊकान्तिकैर्देवैः ॥ १४ ॥ जन्मजरामरणार्त्त जगदशरणमभिसमीक्ष्य निःसारम् । स्फीतमपहाय राज्यं शमाय धीमान्प्रवव्राज ॥ १५ ॥ प्रतिपद्याशुभशमनं निःश्रेयससाधकं श्रमणलिङ्गम् । कृतसामायिककर्मा व्रतानि विधिवत्समारोप्य ॥१६॥ सम्यक्त्वज्ञानचारित्रसंवरतपःसमाधिबलयुक्तः। १ यस्योदये सति त्रिभुवनस्यापि पूज्यो भवति तद्रूपत्वं तीर्थकरनाकर्मणो लक्षणम् । तच्च कैवल्यावस्थायां विपच्यते । २ मतिश्रुतावधीनां लक्षणं सू. १।९ टिप्पन्यां द्रष्टव्यम् । . ३ यन्निमित्तकदृढतमादिभेदभिन्नास्थिबन्धनरूपविशेषो भवति तद्रूपत्वं संहननस्य लक्षणम् । ४ सम्यक्त्वम्-मोक्षाविरोधी आत्मनः परिणामः। यस्मिन् व्यक्ते सति आत्मनोऽ न्तर्मुखप्रवृत्तिः । अस्यैव परिणामस्य फलं तत्त्वरुचिः। सम्यक्त्वे सिद्धे सति प्रशमसंवेगनिवेदानुकम्पास्तिकता इति पञ्च प्रायो दृश्यन्ते । तथा तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वम् । चारित्रम् सावद्ययोगविरतिरूपत्वम् । संवरः- आश्रवविरोधनिमित्तकत्वं संवरस्य लक्षणम् । मनोवाकायलक्षणयोगाः शुभाशुभकर्म यस्मादाश्रवन्ति स आश्रवः ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy