SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्त्वार्थाधिगमसूत्रेषु १८० आर्तरौद्रधर्मशुक्लॉनि ॥ २९ ॥ तच्चतुर्विधं भवति । तद्यथा । आर्त रौद्रं धर्म शुक्लमिति तेषाम् ।२९। परे मोक्षहेतू ॥ ३० ॥ तेषां चतुर्णा ध्यानानां परे धर्मशुक्ले मोक्षहेतू भवतः । पूर्वे त्वातरौद्रे संसारहेतू इति ॥ ३०॥ अत्राह । किमेषां लक्षणमिति । अत्राच्यते आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ३१ ॥ अमनोज्ञानां विषयाणां संप्रयोगे तेषां विप्रयोगार्थ या स्मृतिसमन्वाहारो भवति तदार्तध्यानमित्याचक्षते ॥ ३१ ॥ किं चान्यत् वेदनायाश्च ॥ ३२ ॥ वेदनायाश्चामनाज्ञायाः संप्रयोगे तद्विपयोगाय स्मृतिसमन्वाहार आर्तमिति ॥ ३२ ॥ किं चान्यत् विपरीतं मनोज्ञानाम् ॥ ३३ ॥ मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तत्संप्रयोगाय स्मृतिसमन्वाहार आर्तम् ॥ ३३ ॥ किं चान्यत् १ शोकाक्रन्दनविलपनादिरूपत्वम् । २ क्रूरपरिणामादिरूपत्वम् । ३ जिनप्रणीतभावश्रद्धानादिनिमित्तकत्वम् । ४ अबाध्यासंमोहादिकरणरूपत्वम् । ५ अमनोज्ञः-अप्रियः।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy