________________
१७५
अष्टमोऽध्यायः ज्ञानावरणे प्रज्ञाज्ञाने ॥ १३ ॥ ज्ञानावरणोदये प्रज्ञाज्ञानपरीषहौ भवतः ॥ १३ ॥ दर्शनमोहान्तराययोरदर्शनालाभौ ॥ १४ ॥
दर्शनमोहान्तराययोरदर्शनालाभौ यथासङ्ख्यं दर्शनमोहोदयेऽदर्शनपरीषहः लाभान्तरायोदयेऽलाभपरीषहः ॥१४॥
चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥ १५ ॥
चारित्रमोहोदये एते नाग्न्यादयः सप्त परीषहा भवन्ति॥१५॥
__ वेदनीये शेषाः ॥ १६ ॥
वेदनीयोदये शेषा एकादश परीषहा भवन्ति ये जिने संभवन्तीत्युक्तम् । कुतः शेषा । एभ्यः प्रज्ञाज्ञानादर्शनालाभनाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्कारेभ्य इति ॥१६॥
एकादयो भाज्या युगपदेकोनविंशतेः॥ १७ ॥
एषां द्वाविंशतः परीषहाणामेकादयो भजनीया युगपदेकस्मिन् जीवे आ एकोनविंशतेः । अत्र शीतोष्णपरीषहौ युगपन्न भवतः । अत्यन्तविरोधित्वात् । तथा चर्याशय्यानिषद्यापरीषहाणामेकस्य संभवे द्वयोरभावः ॥१७॥ सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातानि चारित्रम् ॥ १८ ॥
सामायिकसंयमः छेदोपस्थाप्यसंयमः परिहारविशुद्धिसंयमः सूक्ष्मसंपरायसंयमः यथाख्यातसंयम इति पञ्चविधं चारित्रम् । तत्पुलाकादिषु विस्तरेण वक्ष्यामः ॥१८॥
१ अ. ९ सू. ४८.
-
---