SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १७३ अष्टमोऽध्यायः । वता परमर्षिणार्हताही व्याख्यातो धर्म इत्येवमनुचिन्तयेत् । एवं ह्यस्य धर्मस्वाख्याततत्त्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने च व्यवस्थानं भवतीति धर्मस्वाख्याततत्त्वानुचिन्तनानुप्रेक्षा ॥७॥ ___ उक्ता अनुप्रेक्षाः । परीषहान्वक्ष्यामः । मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः॥ ८॥ सम्यग्दर्शनादेर्मोक्षमार्गादच्यवनार्थ कर्मनिर्जरार्थ च परिपोढव्याः परीषहा इति ॥८॥ तद्यथा। क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि ॥ ९॥ क्षुत्परीषहः पिपासा शीतं उष्णं दंशमशकं नाग्न्यं अरातिः स्त्रीपरीषहः चर्यापरीषहः निषद्या शय्या आक्रोशः वधः याचनं अलाभः रोगः तृणस्पर्शः मलं सत्कारपुरस्कारः प्रज्ञाज्ञाने अदर्शनपरीषह इत्येते द्वाविंशतिधर्मविघ्नहेतवो यथोक्तं प्रयोजनमभिसंधाय रागद्वेषौ निहत्य परीषहाः परिषोढव्या भवन्ति । १ अहो इत्याश्चर्ये । २ परीति समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थ साध्वादिभिः सह्यन्ते इति परीषहाः। ते च द्वाविंशतिसंख्याकाः-१ दिगिञ्छापरीषहः ( बुभुक्षापरीषहः) बुभुक्षा अत्यन्तव्याकुलत्वहेतुरप्यसंयमभीरुतया आहारपरिपाकादिवाञ्छाविनिवर्तनेन परीति सर्वप्रकारं सद्यत इति परीषहः दिगिञ्छापरीषहः । २ एवं पिपासापि । ३ शीतं शिशिरः स्पर्शः तदेव परीषहः शीतपरीषहः । ४ एवं उष्णपरीषहः । ५दंशमशकपरीषहः । ६ अचेलं चेलाभावो जिनकल्पिकादीनाम् , अन्येषां तु भिन्नमल्पमूल्यं च चेलमप्यचेलमेव अवस्त्राशीलादिवत्, तदेव परीषहो अचेलपरीषहः । ७ रमणं रतिः संयमविषया धृतिः, तद्विपरीता त्वरतिः सैव परीषह:
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy