SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्त्वार्थाधिगमसूत्रेषु १५८ तद्यथा। एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम चतुरिन्द्रियजातिनाम पञ्चन्द्रियजातिनामोत ॥ एकेन्द्रियजातिनामानेकविधम् । तद्यथा । पृथिवीकायिकजातिनाम अप्कायिकजातिनाम तेजःकायिकजातिनाम वायुकायिकजातिनाम वनस्पतिकायिकजातिनामेति ॥ तत्र पृथिवीकायिकजातिनामानेकविधम् । तद्यथा । शुद्धपृथिवी- शर्करावालुकोपल-शिलालवणायस्त्रपु-ताम्र-सीसक-रूप्य-सुवर्ण-वज्र-हरिताल-हिङ्गुलक-मनःशिला-सस्यकाञ्चनप्रवालकाभ्रपटलाभ्रवालिका जातिनामादिगोमेदक-रुचकाङ्क-स्फटिकलोहिताक्ष-जलावभास-वैडूर्य-चन्द्रप्रभ-चन्द्रकान्त-सूर्यकान्त-जलकान्त-मसारगल्लाश्मगर्भ-सौगन्धिक-पुलकारिष्ट-काश्चनमणिजातिनामादि च ॥ अपकायिकजातिनामानेकविधम् । तद्यथा । उपक्लेदावश्याय-नीहार-हिम-घनोदक-शुद्धोदकजातिनामादि ॥ तेजःकायिकजातिनामानेकविधम् । तद्यथा । अङ्गार-ज्वाला-लाताचिमुर्मुर--शुद्धाग्निजाटिनामादि । वायुकायिकजातिनामानेकविधम् । तद्यथा । उत्कलिका-मण्डलिका-झञ्झकायन-संवर्तकजातिनामादि ॥ वनस्पतिकायिकजातिनामानेकविधम् । तद्यथा । कन्द-मूल-स्कन्ध-त्वक -काष्ठपत्र-प्रवाल-पुष्प-फल-गुल्म-गुच्छ--लता-वल्ली-तृण-- पर्वकायशेवाल-पनक-वलक-कुहनजातिनामादि ॥ एवं द्वीन्द्रियजातिनामानेकविधम् । एवं त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामादीन्यपि ॥ शरीरनाम पञ्चविधम् । तद्यथा । औदारिकशरीरनाम वौक्रयशरीरनाम आहारकशरीरनाम तैजसशरीरनाम कार्मणशरीरनामेति ॥ अङ्गोपाङ्गनाम त्रिविधम् । तद्यथा । औदारिकाङ्गोपाङ्गनाम वैक्रियशरीराङ्गोपाङ्गनाम आहारकशरीराङ्गोपाङ्गनाम । पुनरेकैकमनेकावधम् । तद्यथा । अङ्गानाम तावत् शिरोनाम उरोनाम पृष्ठनाम बाहुनाम उदरनाम पादनाम ॥ उपाङ्गनामानेकविधम् । तद्यथा ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy