SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १५७ अष्टमोऽध्यायः र्थान्तरम् । तस्यास्य लोभस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा लाक्षारागसदृशः कर्दमरागसदृशः कुसुम्भरागसदृशो हरिद्रारागसदृश इति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनैर्व्याख्याते। एषां क्रोधादीनां चतुर्णा कषायाणां प्रत्यनीकभूताः प्रतिघातहेतवो भवन्ति । तद्यथा । क्षमा क्रोधस्य मार्दवं मानस्यार्जवं मायायाः संतोषो लोभस्येति ॥ १० ॥ नारकतैर्यग्योनमानुषदैवानि ॥ ११ ॥ आयुष्कं चतुर्भेदं नारकं तैर्यग्योनं मानुषं दैवमिति ॥ ११ ॥ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसङ्घातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपघातपराघातातपोद्योतोच्छासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्त्वंच ॥१२॥ . गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम निर्माणनाम बन्धननाम संघातनाम संस्थाननाम संहनननाम स्पर्शनाम रसनाम गन्धनाम वर्णनाम आनुपूर्वीनाम अगुरुलघुनाम उपघातनाम पराघातनाम आतपनाम उद्योतनाम उच्छासनाम विहायोगतिनाम । प्रत्येकशरीरादीनां सेतराणां नामानि । तद्यथा । प्रत्येकशरीरनाम साधारणशरीरनाम त्रसनाम स्थावरनाम सुभगनाम दुर्भगनाम सुस्वरनाम दुःस्वरनाम शुभनाम अशुभनाम सूक्ष्मनाम बादरनाम पर्याप्तनाम अपर्याप्तनाम स्थिरनाम अस्थिरनाम आदेयनाम अनादेयनाम यशोनाम अयशोनाम तीर्थनाम तीर्थ करनाम इत्येतब्दिचत्वारिंशद्विधं मूलभेदतो नामकर्म भवति । उत्तरनामानेकविधम् । तद्यथा। गतिनाम चतुर्विधं नरकगतिनाम तिर्यग्योनिगातनाम मनुष्यगतिनाम देवगतिनामेति ॥जातिनाम्नो मूलभेदाः पञ्च ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy