SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सभाष्यतत्वार्याधिगमसूत्रेषु . १५४ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च ॥ ८॥ १ चक्षुर्दर्शनावरणं २ अचक्षुर्दर्शनावरणं ३ अवधिदर्शनावरणं ४ केवलदर्शनावरणं ५ निद्रावेदनीयं ६ निद्रानिद्रावेदनीयं ७ प्रचलावेदनीयं ८ प्रचलाप्रचलावेदनीयं ९ स्त्यानगृद्धिवेदनीयमिति दर्शनावरणं नवभेदं भवति ॥८॥ __सदसवेद्ये ॥ ९॥ सद्वेद्यं असद्वेद्यं च वेदनीयं द्विभेदं भवति ॥९॥ दर्शनचारित्रमाहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यकत्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदाः ॥१०॥ (१) पशत्यनेनात्मेति चक्षुः सर्वमेवेन्द्रियमात्मनः सामान्यविशेषबोधस्वभावस्य करणं तद्वारकं यत्सामान्यमात्रोपलम्भनमात्मपरिणतिरूपं चक्षुदर्शनम्, तद्घाति चक्षुर्दर्शनावरणम् तच्च देशघाति भवति । (२) शेषेन्द्रियमनोविषयकमविशिष्टमचक्षुर्दर्शनम् ,तद्घाति कर्माचक्षुर्दर्शनावरणम् । तच्च वेत्रिसमं भवति । (३।४) अवधिदर्शनावरणक्षयोपशमसमुद्भूतमवधिदर्शनम् । साक्षादात्मनः सामान्यमात्रापेलभं केवलदर्शनावरणक्षयसमुद्भूतं केवलदर्शनम् । तयोरावारकं कर्म अवधिदर्शनावरणम् केवलदर्शनावरणं च भवति । (५) सुखप्रबोधस्वभावावस्थाविशेषरूपत्वं, सुखजागरणस्वभावस्वापावस्थाविशेषरूपत्वं वा निद्राया लक्षणम् । (६) दुःखजागरणस्वभावस्वापावस्थाविशेषरूपत्वं, दुःखप्रतिबोधस्वापावस्थाविशेषरूपत्वं वा निद्रानिद्राया लक्षणम् (७) स्थितोपस्थितस्वापावस्थाविशेषरूपत्वं प्रचलाया लक्षणम् । (८) चंक्रमणविषयकस्वापावस्थाविशेषरूपत्वं प्रचलाप्रचलाया लक्षणम् । (९) दिनचिन्तितार्थातिकाङाविषयकस्वापावस्थाविशेषरूपत्वं, जाग्रदवस्थाध्यवसितार्थसंसाधनविषयकाभिकाङ्कानिमित्तकस्वापावस्थाविशेषरूपत्वं वा स्त्यानद्धेलक्षणम् ॥ अत्र निद्रादयस्तु समाधिगताया दर्शनलब्धेरुपघाते प्रवर्तन्ते ॥ चक्षुर्दर्शनावरणादिचतुष्टयं तु दर्शनोद्गमोच्छेदित्वात् मूलघातं निर्वहन्ति ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy