SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १५३ अष्टमोऽध्यायः। आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रा न्तरायाः ॥५॥ आद्य इति सूत्रक्रमप्रामाण्यात्प्रकृतिबन्धमाह । सोऽष्टविधः । तद्यथा । ज्ञानावरणं दर्शनावरणं वेदनीयं मोहनीयं आयुष्कं नाम गोत्रं अन्तरायमिति ॥५॥ किं चान्यत्पञ्चनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशव्दिपश्चभेदा यथाक्रमम् ॥ ६॥ स एष प्रकृतिबन्धोऽष्टविधोऽपि पुनरेकशः पञ्चभेदः नवभेदः विभेदः अष्टाविंशतिभेदः चतुर्भेदः द्विचत्वारिंशद्भेदः विभेदः पञ्चभेद इति यथाक्रमं प्रत्येतव्यम् ॥६॥ इत उत्तरं यद्वक्ष्यामः । तद्यथा मत्यादीनाम् ॥ ७ ॥ ज्ञानावरणं पञ्चविधं भवति । मत्यादीनां ज्ञानानामावरणानि पञ्च विकल्पांश्चैकश इति ॥७॥ १ (१) अष्टाविंशतिभेदभिन्नं मतिज्ञानं येनावियते तन्मतिज्ञानावरणं देशघाति, लोचनपटवत्। (२) श्रोत्रोपलब्धिरूपश्रुतज्ञानं येनात्रियते तत् श्रुतज्ञानावरणम् तदपि देशघाति भवति(३) इन्द्रियानिन्द्रियनिरपेक्षत्वे सति आत्मनोऽवधिज्ञानावरणक्षयोपशमजन्यपुगलविषयकप्रकाशाविर्भावरूपं अवधिशानं येनानियते तदवधिज्ञानावरणम् तदपि देशघाति। (४) साक्षादात्मनो मनोद्रव्यपर्यायान् निमित्तीकृत्य मनुष्यक्षेत्राभ्यन्सरवर्तिसंशिपंचेन्द्रियमनोग्राहिप्रकाशविशेषरूपं मनःपर्यायज्ञानं येनाब्रियते तन्मनःपर्यायशानावरणम् , तदपि देशघाति । (५) केवलज्ञानावरणक्षयसमुद्भूतमात्मप्रकाशस्वरूपं केवलज्ञानं येनात्रियते तत्केवलज्ञानावरणम् , तच्च सर्वघाति भवति । २०
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy