SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सभाष्यतस्त्वार्थाधिगमसूत्रेषु १३६ परमप्रकृष्टा दर्शनविशुद्धिः । विनयसंपन्नता च । शीलव्रतेवात्यन्तिको भृशमप्रमादोऽनतिचारः । अभीक्ष्णं ज्ञानोपयोगः संवेगश्च । यथाशक्तितस्त्यागस्तपश्च । सङ्घस्य साधूनां च समाधि - यानृत्यकरणम् । अर्हत्स्वाचार्येषु बहुश्रुतेषु प्रवचने च परमभावविशुद्धियुक्ता भक्तिः । सामायिकादीनामावश्यकानां भावतोऽनुष्ठानस्यापरिहाणिः । सम्यग्दर्शनादेर्मोक्षमार्गस्य निहत्य मानं करणोपदेशाभ्यां प्रभावना । अर्हच्छासनानुष्ठायिनां श्रुतधराणां बालवृद्धत - स्विशैक्षग्लानादीनां च सङ्ग्रहोपग्रहानुग्रहकारित्वं प्रवचनवत्सलत्वमिति । एते गुणाः समस्ता व्यस्ता वा तीर्थकरनाम्न आस्रवा 1 भवन्तीति ।। २३ ।। परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचे - 'गौत्रस्य ॥ २४ ॥ परनिन्दात्मप्रशंसा सद्गुणाच्छादनमसगुणोद्भावनं चात्मपरोभयस्थं नीचैर्गोत्रस्यास्रवा भवन्ति ॥ २४ ॥ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य ॥ २५ ॥ उत्तरस्येति सूत्रक्रमप्रामाण्यादुच्चैर्गोत्रस्याह । नीचैर्गोत्रास्रवविपर्ययो नीचैर्वृत्तिरनुत्सेकचोच्चैर्गोत्रस्या वा भवन्ति ।। २५ ।। विघ्नकरणमन्तरायस्य ॥ २६ ॥ दानादीनां विघ्नकरणमन्तरायस्यास्रवो भवतीति । एते साम्परायिकस्याष्टविधस्य पृथक् पृथगास्स्रवविशेषा भवन्तीति ॥ २६ ॥ इति तत्त्वार्थाधिगमसूत्रेषु षष्ठोऽध्यायः समाप्तः ||६॥ १२ अ. ८ सू. १३. ३ अ. ८ सू. १४.
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy