________________
(१७) मैथुनमब्रह्म ॥११॥ मूर्छा परिग्रहः ॥१२॥ निःशल्यो व्रती ॥ १३॥ अगार्यनगारश्च ॥१४॥
अणुव्रतोऽगारी ॥१५॥ दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोगातिथिसंविभागवतसंपन्नश्च ॥ १६ ॥ मारणान्तिकीं संलेखनां जोषिता ॥१७॥
सम्यग्दृष्टरतिचाराः॥१८॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ १९ ॥
बन्धवधविच्छेदातिभारारोपणानपाननिरोधाः॥२०॥ मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः॥२१॥ - स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः॥२२॥ ___परविवाहकरणेत्वरपरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीवकामाभिनिवेशाः॥ २३ ॥ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः॥२४॥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥२५॥ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः॥२६॥ कन्दर्पकौकुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधिकत्वानि ॥२७॥
योगदुष्पणिधानानादरस्मृत्यनुपस्थापनानि ॥२८॥ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥ २९ ॥
सचित्तसंबद्धसंमिश्राभिषवदुष्पक्काहाराः ॥ ३० ॥ सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः॥३१॥ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ॥ ३२॥
अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ३३॥ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः॥ ३४॥
इति सप्तमोऽध्यायः॥ ७॥