________________
सभाष्यतस्त्रार्थाधिगमसूत्रेषु
.११६
अत्राह । किमर्थ स्पर्शादीनां शब्दादीनां च पृथक् सूत्रकरणमिति । अत्रोच्यते । स्पर्शादयः परमाणुषु स्कन्धेषु च परिणामजा एव भवन्तीति । शब्दादयस्तु स्कन्धेष्वेव भवन्त्यनेकनिमित्ताश्चेत्यतः पृथक्करणम् ॥ २४ ॥
त एते पुद्गलाः समासतो द्विविधा भवन्ति । तद्यथाअणवः स्कन्धाश्च ॥ २५ ॥
उक्तं च
" कारणमेव तदन्त्यं सूक्ष्मो नित्यैश्च भवति परमाणुः। एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गा " ॥ इति । तत्राणवोऽबद्धाः स्कन्धास्तु बद्धा एव ॥ २५ ॥ अत्राह । कथं पुनरेतद्द्वैविध्यं भवतीति । अत्रोच्यते । स्कन्धास्तावत्
संघातभेदेभ्य उत्पद्यन्ते ॥ २६ ॥
संघाताद्भेदात्संघातभेदादिति । एभ्यस्त्रिभ्यः कारणेभ्यः स्कन्धा उत्पद्यन्ते द्विप्रदेशादयः । तद्यथा - द्वयोः परमाण्वोः संघाताव्दिप्रदेशः । द्विप्रदेशस्याणोश्च संघातात्रिप्रदेशः । एवं सङ्खयेयानामसङ्घयेयानामनन्तानामनन्तानन्तानां च प्रदेशानां संघातात्तावत्प्रदेशाः ॥ एषामेव भेदात द्विप्रदेशपर्यन्ताः ॥ एत एव संघातभेदाभ्यामेकसामयिकाभ्यां द्विपदेशादयः स्कन्धा उत्पद्यन्ते । अन्यस्य
१ अण्यन्त इत्यणवः । अस्मदादीन्द्रिय व्यापारातीतत्वात् । केवल संशब्दनसमधिगम्याः सौक्ष्म्यात् ।
२ स्थौल्याद् ग्रहणादानादिव्यापारसमर्थाः प्रायः स्कन्धाः संघाताः ।
३ द्रव्यास्तिकनयापेक्षयानुज्झितमूर्तिः । पर्यायापेक्षया तु नीलादिभिराकारैरानित्य
एव ।
४ समये भवः सामयिकः । एकशब्दः समानार्थाभिधायी । समानः समयो ययोः संवातभेदयोस्ताभ्यामेककालाभ्यामिति यावत् ।