________________
(१४) अथ पंचमोऽध्यायः ।
अजीवकाया धर्माधर्माकाशपुद्गलाः॥१॥
द्रव्याणि जीवाश्च ॥२॥ नित्यावस्थितान्यरूपाणि ॥३॥ रूपिणः पुद्गलाः॥४॥ आ (आ-आ )काशादेकद्रव्याणि ॥५॥ निष्क्रियाणि च ॥ ६॥ असंख्येयाः प्रदेशा धर्माधर्मयोः॥७॥
जीवस्य च ॥ ८॥
आकाशस्यानन्ताः॥९॥ संख्येयासंख्येयाश्च पुद्गलानाम् ॥१०॥
नाणोः॥११॥ लोकाकाशेऽवगाहः ॥१२॥
धर्माधर्मयोः कृत्स्ने ॥ १३॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ असंख्येयभागादिषु जीवानाम् ॥ १५ ॥ प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ॥१६॥ गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ॥१७॥
आकाशस्यावगाहः ॥१८॥ शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥ १९ ॥ सुखदुःखजीवितमरणोपग्रहाश्च ॥ २०॥
परस्परोपग्रहो जीवानाम् ॥२१॥ वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥२२॥
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥२३॥ शब्दबन्धसोक्षम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च ॥२४॥
अणवः स्कन्धाश्च ॥ २५॥ संघातभेदेभ्य उत्पद्यन्ते ॥२६॥
भेदादणुः॥२७॥ भेदसंघाताभ्यां चाक्षुषाः ॥२८॥ उत्पादव्ययध्रौव्ययुक्तं सत् ॥ २९॥ तद्भावाव्ययं नित्यम् ॥ ३०॥