________________
चतुर्थोऽध्यायः ।
अधिके च ॥३५॥
ऐशाने द्वे एव सागरोपमे अधिके परा स्थितिर्भवति ||३५|| सप्त सनत्कुमारे || ३६ ॥
सनत्कुमारे कल्पे सप्त सागरोपमानि परा स्थितिर्भवति ||३६|| विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च
१०३
11 30 11
---
एभिर्विशेषादिभिरधिकानि सप्त माहेन्द्रादिषु परा स्थितिर्भवति । सप्तेति वर्तते । तद्यथा - माहेन्द्रे संप्त विशेषाधिकानि । ब्रह्मलोके त्रिभिरधिकानि सप्त दशेत्यर्थः । लान्तके सप्तभिरधिकानि सप्त चतुर्दशेत्यर्थः । महाशुक्रे दशभिरधिकानि सप्त सप्तदशेत्यर्थः । सहस्रारे एकादशभिरधिकानि सप्त अष्टादशेत्यर्थः । आनतप्राणतयोत्रयोदशभिरधिकानि सप्त विंशतिरित्यर्थः । आरणाच्युतयोः पञ्चदशभिरधिकानि सप्त द्वाविंशतिरित्यर्थः ॥ ३७॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु
सर्वार्थसिद्धे च ॥ ३८ ॥
आरणाच्युतादूर्ध्वमेकैकेनाधिका स्थितिर्भवति नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च । आरणाच्युते द्वाविंशतिग्रैवेयकेषु पृथकैकेनाधिका त्रयोविंशतिरित्यर्थः । एवमेकैकेनाधिका सर्वेषु नवसु यावत्सर्वेषामुपरि नवमे एकत्रिंशत् । सा विजयादिषु चतुर्ष्वप्येकेनाधिका द्वात्रिंशत् । साप्येकेनाधिका सर्वार्थसिद्धे त्रयस्त्रिंशदिति ॥ ३८ ॥
अत्राह । मनुष्यतिर्यग्योनिजानां परापरे स्थिती व्याख्याते । अथोपपातिकानां किमेकैव स्थितिः परापरे न विद्येते इति । अत्रोच्यते