________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
१०२
औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २८ ॥ औपपातिकेभ्यश्च नारकदेवेभ्यो मनुष्येभ्यश्च यथोक्तेभ्यः शेषा एकेन्द्रियादयस्तिर्यग्योनयां भवन्ति ॥ २८ ॥
अत्राह । तिर्यग्योनिमनुष्याणां स्थितिरुक्ता । अथ देवानां का स्थितिरिति । अत्रोच्यते
―――――
स्थितिः ॥ २९ ॥ स्थितिरित्यत ऊर्ध्वं वक्ष्यते ।। २९ ।।
भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥ ३० ॥ भवनेषु तावद्भवनवासिनां दक्षिणार्धाधिपतीनां पल्योपममध्यर्धं परा स्थितिः । द्वयोर्द्वयोर्यथोक्तयोर्भवनवासीन्द्रयोः पूर्वो दक्षिणार्धाधिपतिः पर उत्तरार्धाधिपतिः ।। ३० ।।
शेषाणां पादोने ॥ ३१ ॥
शेषाणां भवनवासिष्वधिपतीनां द्वे पल्योपमे पादोने परा स्थितिः । के च शेषा उत्तरार्धाधिपतय इति ॥ ३१ ॥
असुरेन्द्रयोः सागरोपममधिकं च ॥ ३२ ॥ असुरेन्द्रयोस्तु दक्षिणार्धाधिपत्युत्तरार्धाधिपत्योः सागरोपममधिकं च यथासङ्ख्यं परा स्थितिर्भवति ।। ३२ ।।
सौधर्मादिषु यथाक्रमम् ॥ ३३ ॥
सौधर्ममादिं कृत्वा यथाक्रममित ऊर्ध्वं परा स्थितिर्वक्ष्यते ॥ ३३ ॥ सागरोपमे ॥ ३४॥
सौधर्मे कल्पे देवानां परा स्थिति सागरोपमे इति ॥ ३४ ॥
१ अ. ३ सू. २६.
२ दक्षिणार्धाधिपतिः - चमरेन्द्रः । उत्तरार्धाधिपतिः बलीन्द्रः ।