________________
सभाष्यतस्वार्थाधिगमसूत्रेषु
१००
अत्राह । उक्तं भवता द्विविधा वैमानिका देवाः 'कल्पोपपन्नाः कल्पातीताश्च' (४-१८) इति । तत् के कल्पा इति । अत्रोच्यतेप्रोग्रैवेयकेभ्यः कल्पाः ॥ २४ ॥
प्राग्ग्रैवेयकेभ्यः कल्पा भवन्ति सौधर्मादय आरणाच्युतपर्यन्ता इत्यर्थः । अतोऽन्ये कल्पातीताः ॥
अत्राह । किं देवाः सर्व एव सम्यग्दृष्टयो यद्भगवतां परमर्षीणामतां जन्मादिषु प्रमुदिता भवन्ति इति । अत्रोच्यते । न सर्वे सम्यग्दृष्टयः किं तु सम्यग्दृष्टयः सद्धर्मबहुमानादेव तत्र प्रमुदिता भवन्त्यभिगच्छन्ति च । मिथ्यादृष्टयोऽपि च लोकचित्तानुरोधादिन्द्रानुवृत्त्या परस्परदर्शनात् पूर्वानुचरितामिति च प्रमोदं भजन्तेऽभि - गच्छन्ति च । लोकान्तिकास्तु सर्व एव विशुद्धभावाः सद्धर्म बहुमानात्संसारदुःखार्त्तानां च सत्त्वानामनुकम्पया भगवतां परमर्षीणामहतां जन्मादिषु विशेषतः प्रमुदिता भवन्ति । अभिनिःक्रमणाय च कृतसंकल्पान्भगवतोऽभिगम्य प्रहृष्टमनसः स्तुवन्ति सभाजयन्ति चेति ॥ २४ ॥
ब्रह्मलोकालया लोकान्तिकाः ॥ २५ ॥
ब्रह्मलोकालया एव लोकान्तिका भवन्ति नान्यकल्पेषु नापि परतः । ब्रह्मलोकं परिवृत्त्याष्टासु दिक्षु अष्टविकल्पा भवन्ति ॥ २५ ॥
तद्यथा
१ भवनवासिनो (४-११), व्यन्तराः ( ४- १२ ), ज्योतिष्काः (४-१३ ), सौधर्मादयो द्वादश (४-२० ) ।
२ (४-२० ) सूत्रे नवग्रैवेयकादयो यथोक्ताः ।
३ लौकान्तिकास्तु सर्वे सम्यग्दृष्टयोऽवश्यं चाईच्चरणमूलपर्यन्तमायान्ति, अईदा - दिसंवेगप्रशंसार्थमात्महितार्थं च ।