________________
चतुर्थोऽध्यायः । नाः प्रायेण भवन्ति न कदाचिदसवेंदनाः। यदि चासद्वेदना भवन्ति ततोऽन्तर्मुहूर्तमेव भवान्त न परतोऽनुबद्धाः सद्वेदनास्तूत्कृष्टेन षण्मासान् भवन्ति ॥ उपपातः। आरणाच्युतादूर्ध्वमन्यतीर्थानामुपपातो न भवति । स्वलिङ्गिनां भिन्नदर्शनानामात्रैवेयकेभ्य उपपातः। अन्यस्य सम्यग्दृष्टेः संयतस्य भजनीयं आसर्वार्थसिद्धात् । ब्रह्मलोकार्ध्वमासर्वार्थसिद्धाच्चतुर्दशपूर्वधराणामिति ॥ अनुभावो विमानानां सिद्विक्षेत्रस्य चाकाशे निरालम्बस्थितौ लोकस्थितिरेव हेतुः । लोकस्थितिर्लोकानुभावो लोकस्वभावो जगद्धर्मोऽनादिपरिणामसन्ततिरित्यर्थः । सर्वे च देवेन्द्रा ग्रैवेयादिषु च देवा भगवतां परमर्षीणामहतां जन्माभिषेकनिःक्रमणज्ञानोत्पत्तिमहासमवसरणनिर्वाणकालेवासीनाः शयिताः स्थिता वा सहसैवासनशयनस्थानाश्रयैः प्रचलन्ति । शुभकर्मफलोदयाल्लोकानुभावत एव वा । ततो जनितोपयोगास्तां भगवतामनन्यसदृशीं तीर्थकरनामकर्मोद्भवां धर्मविभूतिमवधिनालोच्य संजातसंवेगाः सद्धर्मबहुमानात्कचिदागत्य भगवत्पादमूलं स्तुतिवन्दनोपासनहितश्रवणैरात्मानुग्रहमाप्नुवन्ति । केचिदपि तत्रस्था एव प्रत्युपस्थापनाञ्जलिप्रणिपातनमस्कारोपहारैः परमसविग्राः सद्धर्मानुरागोत्फुल्लनयनवदनाः समभ्यर्चयन्ति ॥ २२ ॥
पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ २३ ॥
उपर्युपरि वैमानिकाः सौधर्मादिषु द्वयोस्त्रिषु शेषेषु च पीतपद्मशुक्ललेश्या भवन्ति यथासङ्ख्यम् । द्वयोः पीतलेश्याः सौधर्मैशानयोः त्रिषु पद्मलेश्याः सानत्कुमारमाहेन्द्रब्रह्मलोकेषु । शेषेषु लान्तकादिष्वासर्वार्थसिद्धाच्छुक्ललेश्याः । उपर्युपरि तु विशुद्धतरेत्युक्तम् ॥२३॥
१ समवसन्ति नाना परिणामा जीवाः कथञ्चित्तुच्छतया यस्मिन्तत्समवसरणम् ।