SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः नव शतानि पञ्चसप्ततानि तारा कोटीकोटीनामेकैकस्य चन्द्रमसः परिग्रहः । सूर्याश्चन्द्रमसो ग्रहा नक्षत्राणि च तिर्यग्लोके, शेषास्तूर्ध्वलोके ज्योतिष्का भवन्ति । अष्टचत्वारिंशद्योजनकषष्टिभागाः सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशद् , ग्रहाणामधयोजनं, गव्यूतं नक्षत्राणां, सर्वोत्कृष्टायास्ताराया अर्धक्रोशो, जघन्यायाः पश्चधनु:शतानि । विष्कम्भाधबाहल्याश्च भवन्ति । सर्वे सूर्योदयो नृलोक इति वर्तते । बहिस्तु विष्कम्भवाहल्याभ्यामतोऽर्ध भवन्ति । एतानि च ज्योतिष्कविमानानि लोकस्थित्या प्रसक्तावस्थितगतीन्याप ऋद्धिविशेषार्थमाभियोग्यनामकर्मोदयाच्च नित्यं गतिरतयो देवा वहन्ति । तद्यथा-पुरस्तात्केसरिणो, दाक्षिणतः कुञ्जरा, अपरतो वृषभा, उत्तरतो जविनोऽश्वा इति ॥ १४ ॥ तत्कृतः कालविभागः ॥ १५ ॥ कॉलोऽनन्तसमयो वर्तनादिलक्षण इत्युक्तम् । तस्य विभागो ज्योतिष्काणां गतिविशेषकृतश्चारविशेषेण हेतुना । तैः कृतस्तत्कृतः। तद्यथा--अणुभागाश्वारा अंशाः कलालवा नालिका मुहूर्ता दिवसरात्रयः पक्षा मासा ऋतवोऽयनानि संवत्सरा युगामिति लौकिकसमो विभागः ॥ पुनरन्यो विकल्पः प्रत्युत्पन्नोऽतीतोऽनागत इति त्रिविधः ॥ पुनस्त्रिविधः परिभाष्यते सङ्घयेयोऽसङ्ख्येयोऽनन्त इति ॥ १ सूर्यमण्डलस्य विष्कम्भः अष्टचत्वारिंशदेकषष्टभागा योजनस्य (जं.७ वक्ष.) २ सर्वे चैते षोडशसहस्रसंख्या देवाः सवितुर्विमानं वहन्ति । तथा चन्द्रमसः। एवं विमानवहनसमये देवाः पूर्वदक्षिणपश्चिमोत्तरादिक्षु यथाक्रमं केसरिकुञ्जरवृषभाश्वरूपाणि धारयन्ति । ३ अ. ५ सू. ३९. ४ अ ५ सू.२२. ५ प्रत्युत्पन्नः-वर्तमानः।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy