________________
कारिकाः
तीर्थप्रवर्तनफलं यत्प्रोक्तं कर्म तीर्थकर नाम । तस्योदयात्कृतार्थोऽप्यहस्तीर्थं प्रवर्तयति ॥९॥ तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोकम् । तीर्थप्रवर्तनाय प्रवर्तते तीर्थकर एवम् ॥१०॥ यः शुभकर्मासेवनभावितभावो भवेष्वनेकेषु । जज्ञे ज्ञातेक्ष्वाकुषु सिद्धार्थनरेन्द्रकुलदीपः ॥११॥ ज्ञानैः पूर्वाधिगतैरप्रतिपतितैर्मतिश्रुतावधिभिः । त्रिभिरपि शुद्धैर्युक्तः शैत्ययुतिकान्तिभिरिवेन्दुः ॥१२॥ शुभसारसत्त्वसंह'ननवीर्यमाहात्म्यरूपगुणयुक्तः । जगति महावीर इति त्रिदशैर्गुणतः कृताभिख्यः ॥१३॥ स्वयमेव बुद्धतत्त्वः सत्त्वहिताभ्युद्यताचलितसत्त्वः । अभिनन्दितशुभसत्त्वः सेन्द्रैलॊकान्तिकैर्देवैः ॥१४॥ जन्मजरामरणार्तं जगदशरणमभिसमीक्ष्य निःसारम् । स्फीतमपहाय राज्यं शमाय धीमान्प्रवव्राज ॥१५॥ प्रतिपद्याशुभशमनं निःश्रेयससाधकं श्रमणलिङ्गम् । कृतसामायिककर्मा व्रतानि विधिवत्समारोप्य ॥१६॥ सम्यक्त्वज्ञानचारित्रसंवरतपःसमाधिबलयुक्तः ।
१ यस्योदये सति त्रिभुवनस्यापि पूज्यो भवति तद्रूपत्वं तीर्थकरनामकर्मणो लक्षणम् । तच्च
कैवल्यावस्थायां विपच्यते । २ मतिश्रुतावधीनां लक्षणं सू. १९ टिप्पन्यां द्रष्टव्यम् । ३ यनिमित्तकदृढतमादिभेदभिन्नास्थिबन्धनरूपविशेषो भवति तद्रूपत्वं संहननस्य लक्षणम् । ४ सम्यक्त्वम्-मोक्षानुगामी आत्मनः परिणामः । यस्मिन् व्यक्ते सति आत्मनोऽन्त
मुखप्रवृत्तिः । अस्यैव परिणामस्य फलं तत्त्वरुचिः । सम्यक्त्वे सिद्धे सति प्रशमसंवेगनिर्वेदानुकम्पास्तिकता इति पञ्च प्रायो दृश्यन्ते । तथा तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वम् । तथा चारित्रम्-सावद्ययोगविरतिरूपत्वम् । संवरः- आश्रवविरोधनिमित्तकत्वं संवरस्य लक्षणम् । मनोवाकायलक्षणयोगाः शुभाशुभकर्म यस्मादाश्रवन्ति स आश्रवः ।