________________
श्रुतावतारवाचकप्रवरश्रीमद् उमास्वातिभगवत्प्रणीतं स्वोपज्ञभाष्यसमेतं
तत्त्वार्थाधिगमसूत्रम् ।
सम्बन्धकारिकाः
सम्यग्दर्शनशुद्धं यो ज्ञानं विरतिमेव चाप्नोति । दुःखनिमित्तमपीदं तेन सुलब्धं भवति जन्म ॥१॥ जन्मनि कर्मक्लेशैरनुबद्धेऽस्मिंस्तथा प्रयतितव्यम् । कर्मक्लेशाभावो यथा भवत्येष परमार्थः ॥२॥ परमार्थालाभे वा दोषेष्वारम्भकस्वभावेषु । कुशलानुबन्धमेव स्यादनवयं यथा कर्म ॥३॥ कर्माहितमिह चामुत्र चाधमतमो नरः समारभते । इहफलमेव त्वधमो विमध्यमस्तूभयफलार्थम् ॥४॥ परलोकहितायैव प्रवर्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते विशिष्टमतिरूत्तमः पुरुषः ॥५॥ यस्तु कृतार्थोऽप्युत्तममवाप्य धर्मं परेभ्य उपदिशति । नित्यं स उत्तमेभ्योऽयुत्तम इति पूज्यतम एव ॥६॥ तस्मादर्हति पूजामर्हनेवोत्तमोत्तमो लोके । देवर्षिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसत्त्वानाम् ॥७॥ अभ्यर्चनादर्हतां मनःप्रसादस्ततः समाधिश्च । तस्मादपि निःश्रेयसमतो हि तत्पूजनं न्याय्यम् ॥८॥