________________
तत्त्वार्थाधिगमसूत्रम्
१६३
सुस्वप्नसुप्तवत् केचिदिच्छन्ति परिनिर्वृतिम् । तदयुक्तं क्रियावत्त्वात् सुखानुशयतस्तथा ॥ २८ ॥ श्रमक्लममदव्याधिमदनेभ्यश्च सम्भवात् । मोहोत्पत्तेर्विपाकाच दर्शनघ्नस्य कर्मणः ॥ २९ ॥ लोके तत्सदृशो ह्यर्थः कृत्स्नेऽप्यन्यो न विद्यते । उपगीयेत तद् येन तस्मान्निरुपमं सुखम् ॥ ३० ॥ लिङ्गप्रसिद्धेः प्रामाण्यादनुमानोपमानयोः । अत्यन्तं चाप्रसिद्धं तद् यत्तेनानुपमं स्मृतम् ॥ ३१ ॥ प्रत्यक्षं तद्भगवतामर्हतां तैश्च भाषितम् ।
गृह्यतेऽस्तीत्यतः प्राज्ञैर्न 'छद्मस्थपरीक्षया ॥ ३२ ॥
यस्त्विदानीं सम्यग्दर्शनज्ञानचरणसंपन्नो भिक्षुर्मोक्षाय घटमानः कालसंहननायुर्दोषादल्पशक्तिः, कर्मणां चातिगुरुत्वादकृतार्थ एवोपरमति, स सौधर्मादीनां सर्वार्थसिद्धान्तानां कल्पविमानविशेषाणामन्यतमे देवतयोपपद्यते । तत्र सुकृतकर्मफलमनुभूय स्थितिक्षयात प्रच्युतो देशजातिकुलशीलविद्याविनयविभवविषयविस्तरविभूतियुक्तेषु मनुष्येषु प्रत्यायातिमवाप्य पुनः I अनेन सुखपरम्परायुक्तेन
सम्यग्दर्शनादिविशुद्धबोधिमवाप्नोति कुशलाभ्यासानुबन्धक्रमेण परं त्रिर्जनित्वा' सिध्यतीति ।।
१. छद्मं-कपटं तत्स्थप्रत्यक्षादिभिः परीक्ष्यमाणं न जातुचिदुपलभ्यते ।
२. प्रत्यायातिं प्रत्यागमनम् ।
३. मनुष्यो देवः पुनर्मनुष्य इति त्रीणि जन्मानि समवाप्य सम्यक्त्वज्ञानलाभात् आहितसंवरस्तपसा क्षपितकर्मराशिः सिध्यति सिद्धिक्षेत्रे ।