SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १६२ अन्तिमकारिकाः अधस्तिर्यगथोर्ध्वं च जीवानां कर्मजा गतिः । ऊर्ध्वमेव तु तद्धर्मा भवति क्षीणकर्मणाम् ॥ १६ ॥ द्रव्यस्य कर्मणो यद्धदुत्पत्त्यारम्भवीतयः । समं तथैव सिद्धस्य गतिमोक्षभवक्षयाः ॥ १७ ॥ उत्पत्तिश्च विनाशश्च प्रकाशतमसोरिह । युगपद्भवतो यद्वत् तथा निर्वाणकर्मणोः ॥ १८ ॥ तन्वी मनोज्ञा सुरभिः पुण्या परमभास्वरा । प्राग्भारा नाम वसुधा लोकमूर्ध्नि व्यवस्थिता ॥ १९ ॥ नृलोकतुल्यविष्कम्भा सितच्छत्रनिभा शुभा । ऊर्ध्वं तस्याः क्षितेः सिद्धा लोकान्ते समवस्थिताः ॥ २० ॥ तादात्म्यादुपयुक्तास्ते केवलज्ञानदर्शनैः । सम्यक्त्वसिद्धतावस्थाहेत्वभावाच निष्क्रियाः ॥ २१ ॥ ततोऽप्यूर्ध्वं गतिस्तेषां कस्मानास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात्स हि हेतुर्गतः परः ॥ २२ ॥ संसारविषयातीतं मुक्तानामव्ययं सुखम् । अव्याबाधमिति प्रोक्तं परमं परमर्षिभिः ॥ २३ ॥ स्यादेतदशरीरस्य जन्तोर्नष्टाष्टकर्मणः । कथं भवति मुक्तस्य सुखमित्यत्र मे शृणु ॥ २४ ॥ लोके चतुर्खिहार्थेषु सुखशब्दः प्रयुज्यते । विषये वेदनाभावे विपाके मोक्ष एव च ॥ २५ ॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः सुखितोऽस्मीति मन्यते ॥ २६ ॥ पुण्यकर्मविपाकाच सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच मोक्षे सुखमनुत्तमम् ॥ २७ ॥
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy