________________
१५४
१०-७
साध्योऽनुगम्यश्चिन्त्यो व्याख्येय इत्येकार्थत्वम् । तत्र 'पूर्वभावप्रज्ञापनीयः प्रत्युत्पन्नभावप्रज्ञापनीयश्च द्वौ नयौ भवतः । तत्कृतोऽनुयोगविशेषः । तद्यथा ।
क्षेत्रम् । कस्मिन् क्षेत्रे सिध्यतीति । प्रत्युत्पन्नभावप्रज्ञापनीयं प्रति सिद्धिक्षेत्रे सिध्यति । पूर्वभावप्रज्ञापनीयस्य जन्म प्रतिपञ्चदशसु कर्मभूमिषु जातः सिध्यति । संहरणं प्रति मानुषक्षेत्रे सिध्यति । तत्र प्रमत्तसंयताः संयतासंयताश्च संह्रियन्ते । श्रमण्यपगतवेदः परिहारविशुद्धिसंयतः पुलाकोऽप्रमत्तश्चतुर्दशपूर्वी आहारकशरीरीति न संह्रियन्ते । ऋजुसूत्रनयः शब्दादयश्च त्रयः प्रत्युत्पन्नभावप्रज्ञापनीयाः, शेषा नया उभयभावं प्रज्ञापयन्तीति ॥
कालः । अत्रापि नयद्वयम् । कस्मिन्काले सिध्यतीति । प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले सिध्यति । पूर्वभावप्रज्ञापनीयस्य जन्मतः संहरणतश्च । जन्मतोऽवसर्पिण्यामुत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च जातः सिध्यति । एवं तावदविशेषतः । विशेषतोऽप्यवसर्पिण्यां सुषमदुःषमायां संख्येयेषु सर्वेषु शेषेषु जातः सिध्यति । दुःषमसुषमायां सर्वस्यां सिध्यति, दुःषमसुषमायां जातो दुःषमायां सिध्यति, न तु दुःषमायां जातः सिध्यति, अन्यत्र नैव सिध्यति । संहरणं प्रति सर्वकालेष्ववसर्पिण्यामुत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च सिध्यति ।। ___ गतिः । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगत्यां सिध्यति । शेषास्तु नया द्विविधा अनन्तरपश्चात्कृतगतिकश्च एकान्तरपश्चात्कृतगतिकश्च । अनन्तरपश्चात्कृतगतिकस्य मनुष्यगत्यां सिध्यति । एकान्तरपश्चात्कृतगतिकस्याविशेषेण सर्वगतिभ्यः सिध्यति । ___ लिङ्गं स्त्रीपुंनपुंसकानि । प्रत्युत्पन्नभावप्रज्ञापनीयस्यावेदः सिध्यति । पूर्वभावप्रज्ञापनीयस्यानन्तरपश्चात्कृतगतिकस्य परम्परपश्चात्कृतगतिकस्य च त्रिभ्यो लिङ्गेभ्यः सिध्यति । ___ तीर्थम् । सन्ति तीर्थकरसिद्धाः तीर्थकरतीर्थे, नोतीर्थकरसिद्धाः तीर्थकरतीर्थे, अतीर्थकरसिद्धाः तीर्थकरतीर्थे । एवं तीर्थकरीतीर्थे सिद्धा अपि ।
लिङ्गे पुनरन्यो विकल्प उच्यते । द्रव्यलिङ्गं भावलिङ्गमलिङ्गमिति ।
१. पूर्व-अतीतः । २. प्रत्युत्पन्नः-वर्तमानः । ३. तीर्थकरीतीर्थेऽप्येत एव विकल्पाः । यत आह ‘एवं तित्थंकरी तित्थे' इति
(सिद्धप्राभृतगाथा ३०)।