________________
तत्त्वार्थाधिगमसूत्रम्
१५३
किं चान्यत् ॥
बन्धच्छेदात् । यथा रज्जुबन्धच्छेदात्पेडाया' बीजकोशबन्धनच्छेदाच्चैरण्डबीजानां गतिर्दृष्टा तथा कर्मबन्धनच्छेदात्सिध्यमानगति ।
किं चान्यत् ।
तथागतिपरिणामाच्च । ऊर्ध्वगौरवात्पूर्वप्रयोगादिभ्यश्च हेतुभ्यः तथास्य गतिपरिणाम उत्पद्यते, येन सिध्यमानगतिर्भवति । ऊर्ध्वमेव भवति, नाधस्तिर्यग्वा । गौरवप्रयोगपरिणामासङ्गयोगाभावात् । तद्यथा ।। ___ गुणवद्भूमिभागारोपितमृतुकालजातं बीजो दादङ्गुरप्रवालपर्णपुष्पफलकालेष्वविमानितसेकदौ«दादिपोषणकर्मपरिणतं कालच्छिन्नं शुष्कमलाबु अप्सु न निमज्जति । तदेव गुरुकृष्णमृत्तिकालेपैर्घनैर्बहुभिरालिप्तं घनमृत्तिकालेपवेष्टनजनितागन्तुकगौरवमप्सु प्रक्षिप्तं तज्जलप्रतिष्ठं भवति, यदा त्वस्याद्भिः क्लिन्नो मृत्तिकालेपो व्यपगतो भवति तदा मृत्तिकालेपसङ्गविनिर्मुक्तं मोक्षानन्तरमेवोर्ध्व गच्छति आसलिलोर्ध्वतलात । एवमर्ध्वगौरवगतिधर्मा जीवोऽप्यष्टकर्ममृत्तिकालेपवेष्टितः तत्सङ्गात् संसारमहार्णवे भवसलिले निमग्नो भवासक्तोऽधस्तिर्यगूर्ध्वं च गच्छति, सम्यग्दर्शनादिसलिलक्लेदा अहीणाष्टविधकर्ममृत्तिकालेप ऊर्ध्वगौरवादूर्ध्वमेव गच्छत्यालोकान्तात् ।।
स्यादेतत् लोकान्तादप्यूज़ मुक्तस्य गतिः किमर्थं न भवतीति । अत्रोच्यते । धर्मास्तिकायाभावात् । धर्मास्तिकायो हि जीवपुद्गलानां गत्युपग्रहेणोपकुरुते । स तत्र नास्ति । तस्माद् गत्युपग्रहकारणाभावात्परतो गतिर्न भवति अप्सु अलाबुवत् । नाधो न तिर्यगित्युक्तम् । तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठते मुक्तो निःक्रियः इति ।।
क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाह
नान्तरसंख्याल्पबहुत्वतः साध्याः ॥ ७ ॥ क्षेत्रं कालः गतिः लिङ्ग तीर्थं चारित्रं प्रत्येकबुद्धबोधितः ज्ञानमवगाहना अन्तरं संख्या अल्पबहुत्वमित्येतानि द्वादशानुयोगद्वाराणि सिद्धस्य भवन्ति । एभिः सिद्धः १. यथा रज्या गाढं बद्धायाः कीचकविदलघटितायाः रज्जुबन्धच्छेदादुपरितनपुटस्यागमनमूर्ध्व
दृष्टं यथा वा बीजीकोशः फलं फली वा तस्या बन्धनं गाढसंपुटता तस्याः सवितृकिरणतापशोषितायाः परिणतिकाले संपुटोद्भेदलक्षणश्छेदः । तस्मात् बन्धछेदात् एरंडादिफलभेदे बीजानां गतिः । यथाबीजान्युड्डीय दूरे पतन्ति तथा कर्मबन्धोऽत्र फलादिस्थानीयः । तस्य -छेदात्तद्विघटनानन्तरमेवोर्ध्व गच्छत्यालोकान्तात् । पेडाशब्दो वेणीवाचको देशीभाषाप्रसिद्ध्या ।