________________
9६४ व्यायालोवे प्रथमः प्रकाश
*धम्र्यंशे स्वभावादेव भमपामाण्यम् *
परोक्षत्वं स्वविषयतावच्छेदेन च प्रत्यक्षत्वमिति वाच्यम्, दोषापेक्षे भ्रमे तदनपेक्षाऽनभ्युपगमात् धयंशे स्वभावादेवाऽभ्रमत्वात्।
किञ्च, ज्ञानजन्यतानवच्छेदकं यत्किञ्चिज्जन्यतावच्छेदकं यद्विषयत्वं तदवच्छेदेन तस्य प्रत्यक्षत्वमिति स्वविषयकत्वेन न प्रत्यक्षत्वम्, ज्ञानसामान्यसामग्याः ज्ञानत्वस्यैव जन्यतावच्छेदकत्वात्, विशेषसामग्याञ्च तस्यातिप्रसक्ततयैवा
------भानुमती------- दिविषयतावच्छेदेन = साध्यादिविषयतांशे ज्ञानापेक्षा = हेतुव्यापकत्वादिना साध्यादिज्ञानापेक्षा स्वविषयत्वावच्छेदेन अनुपित्याधात्मकस्व-स्वाश्रयनिष्ठविषयतांशे न सा साध्यादिज्ञानापेक्षा इति एकस्यैवानुमित्यादेः वयादिविषयतावच्छेदेन = साध्यादिविषयतायां परोक्षत्वं = प्रत्यक्षानात्मकत्वं स्वविषयतावच्छेदेन = अनुमित्यादिलक्ष गस्व-स्वाश्रयनिष्ठविषयतायां च प्रत्यक्षत्वं निराबाधमिति त्रिपुटीप्रत्यक्षवादिभिः वाच्यम्, दोषापेक्षे = चाकचिक्यादिलक्षणदोषजन्ये 'इदं रजतमि'त्यादौ भमे तदनपेक्षानभ्युपगमात् = दोषाऽजन्यत्वानडीकारात्। न च भास्य धातूशे दोषाजन्यत्वानुपगमे कथं तस्य धर्यंशेऽभमत्वमिति शमनीयम, धम्यशे = विशेष्यांशे स्वभावादेव तस्य अधमत्वात् = भमानात्मकत्वात् । अत एव सर्वं ज्ञानं धर्मिण्यभान्तमिति गीयते। तदक्तमेकेषां मन प्रकाशकृता रुचिदत्तमिश्रेण -> एकस्मिन्नेव कार्ये एकस्यैव कारणस्यापेक्षानपेक्षयोर्विरोधस्य ब्रहाणाऽपि दरपोयत्वात् । भमे च धाशेऽपि दोषादिकारणस्याऽपेक्षणात् । न चैवं धायंशेऽपि भमत्वापत्ति: । न हि तदंशे दोषारपेक्षणादभमत्वम्, किन्तु स्वभावादित्येके <- (त.चिं.प्र.प्र.वं.पू.८१२) इति । तदुक्तं तत्वचिन्तामणावपि --> किञ्चालुमित्यादौ जातिसङ्करान प्रत्यक्षत्वम् । न च ज्ञानसापेक्षं मनो जनकमित्यनुमितिविषयवदात्मनि न तत्प्रत्यक्षम् । तस्य स्वविषयत्वे ज्ञानानपेक्षेति चेत् ? न, ज्ञानं ज्ञानजन्यं, तच्च स्वविषये स्वात्मत्येकमेवेते कथं तदपेक्षं तदनपेक्षश्च ? विरुदत्वात् । न च ज्ञानभिन्नविषयत्वं सापेक्षं (? क्षत्वं), तथात्वे बहिनिं प्रत्यक्ष न स्यात् <- (त.चिं.प्र.ख.प.८००) इति । प्रत्यक्षं न स्यादिति विषयत्वे ज्ञानभिन्ने परज्ञानानपेक्षत्वं ज्ञाने धर्मिणि तदपेक्षत्वमिति प्रत्यक्षत्वं न स्यादिति <- तत्वचिन्तामण्यालोककार: जयदेवमिश्रः ।
परप्रकाशवादी स्वप्रकाशपक्षे दोषान्तरमाह -> किचेति । ज्ञानजन्यतानवच्छेदकं = ज्ञाननिरूपिताया: कार्यताया अवच्छेदकं यत्तदिनं यत्किञ्चिजन्यतावच्छेदकं = ज्ञानविशेषसामग्या जन्यतावच्छेदकं यविषयत्वं = यविषयकत्वं = प्रत्यक्षीयघटादिविषयकत्वं यत्र ज्ञानेऽस्ति तदवच्छेदेन = प्रत्यक्षीयघटादिविषयकत्वावच्छेदेन तस्य ज्ञानस्य प्रत्यक्षत्वं इति नियमः । तथाहि व्यापिज्ञान-पदज्ञान-सादृश्यज्ञानजन्यतावच्छेदकानि क्रमेणानुमितित्व-शाब्दत्वोपमितित्वानि, तदिलत्वे सति घटचक्षुःसनिकर्षादिज्ञानसामग्रीजन्यतावच्छेदकं यद घटादिविषयकत्वं तत् घटचाक्षुषेऽस्ति । अतो घटादिविषयकत्वावच्छेदेन घटचाक्षुषस्य प्रत्यक्षत्वं सम्भवति । इत्थमुपदर्शितनियमस्य प्रामाणिकत्वं इति हेतोः 'घटमहं जानामि'इति ज्ञानस्य स्वविषयकत्वेन = स्वात्मकप्रत्यक्षविषयकत्वावच्छेदेन न प्रत्यक्षत्वं, स्वात्मकप्रत्यक्षविषयकत्वस्य ज्ञानजन्यतावच्छेदकभिन्नत्वे सति यत्किचिज्ज्ञानसामगीजन्यतावच्छेदकत्वविरहात् । तदेव भावयति -> ज्ञानसामान्यसामग्या: ज्ञानत्वस्यैव जन्यतावच्छेदकत्वात् । यद्यपि स्वप्रकाशवादिमते स्वात्मकविषयकत्वं ज्ञानसामान्यसामग्रीजन्यताया अन्यूनानतिरिक्तं तथापि लघुधर्मसत्वे गुरोरनवच्छेदकत्वनियमेन स्वात्मकविषयकत्वापेक्षया लघुनो ज्ञानत्वस्य तथात्वमुक्तमित्यवधेयम् । विशेषसामग्याचे तस्य = स्वविषयकत्वस्य सर्वज्ञानसाधारण्येन अतिप्रसक्ततया = ज्ञानविशेषातिरिक्तवृत्तितया
કહે છે કે ભ્રમ દોસાપેક્ષ જ હોય છે. ધર્મી અંશમાં તે પ્રમાત્મક = અભ્રમસ્વરૂપ હોય છે, તેનું કારણ તે અંશમાં દોષનિરપેક્ષતા નથી, પણ પોતાનો સ્વભાવ કારણ છે. ‘દરેક જ્ઞાન ધર્મી અંશમાં અભ્રાન્ત હોય છે' આ જ્ઞાનનો સ્વભાવ જ છે. ભ્રમમાં એવચ્છેદકભેદથી દોષસાપેક્ષતા અને દોષનિરપેક્ષતાનો સમાવેશ અપ્રામાણિક હોવાથી તે દટાન્તના બળથી અનુમિતિ વગેરેમાં જ્ઞાનસાપેક્ષતા અને જ્ઞાનનિરપેક્ષતાના સમાવેશનું સમર્થન નહિ કરી શકાય.
* ज्ञानसाभग्रीन्यतासवरछेष्ठ भात्र ज्ञानत्व - परभ्रठाशवाही * किश्च ज्ञ शानने सांशमा प्रत्यक्षस्१३५ मानवामा मे हो५ मा शत मापे छ - शनसन्यासन१७६ अने કિંચિત્ જ્ઞાન રામગ્રીનું જન્યતાઅવછેદક યદ્વિષયકત્વ જે જ્ઞાનમાં રહેશે તે જ્ઞાન તે અંશમાં પ્રત્યક્ષ હોય છે - આ પ્રસિદ્ધ નિયમ છે. જેમ કે ઘટશ્રુસજ્ઞિકર્ષ પછી થનાર જ્ઞાનમાં જ્ઞાનજન્યતાનું અનવચ્છેદક અને ઘટચાક્ષુષસ્વરૂપ થકિંચિત્ જ્ઞાનની ઘટચશ્નસંયોગપ્રત્યાત્તિરવરૂપ સામગ્રીનું જન્યતાઅવચ્છેદક ઘટવિષયકત્વ રહે છે. તેથી તે જ્ઞાન ઘટઅંશમાં પ્રત્યક્ષાત્મક કહેવાય છે. પરંતુ 'घटमहं जानामि' इत्या प्रत्यक्षमा विद्यमान शानविषयानसामान्यनी सामग्री- न्यताअछे अनेछ, ४॥२१॥