________________
ललितविस्तरा-सटीका
तीर्थंकरत्वं स्वयंसम्बोधिश्चेति द्वौ धर्मों वा गुणौ, महंद्भगवद्रूपव्यक्तिविशेषगतावेव नान्यत्रेत्यसाधारण वसामान्यौ, यतः प्रधानतयाऽर्हत्सु भगवत्स्वेव विद्यमानत्वेनास्तित्वमिति, अत एषा सम्पत् साधारणासाधारणरूपा हेतुसम्पत् कथ्यते यत आदिकरणशीला एव तीर्थ करत्वेन स्वयंसम्बोधितश्चैते इति बर्हन्तो भगवन्तो भवन्तीति ( २ ) असाधारण हेतु सम्पदं वर्णयति
तदपरैस्तु चतुभिः स्तोतव्यसम्पद एवासाधारणरूपा हेतुसम्पत्, पुरुषोत्तमानामेव सिंहपुण्डरीकगन्धहस्तिधर्म्म भाकत्वेन तद्द्भावोपपत्तेः,
टी....तस्या हेतु सम्पदः ( साधारणासाधारण हेतुसम्पदः) अपरंरन्यैस्तु चतुभिः पदैः ( पुरिमाणं, पुरिससीहाणं, पुरिसवरपुंडरीयाणं, पुरिसवरगंधहत्थीणं ) पुरुषोत्तमपुरुषसिंह - पुरुष - वरपुंडरीकपुरुष वरगन्धहस्तिरूपैः पदैः, चतुष्पदवती स्तोतव्यसंपदः - अर्हद्भगवद्रूप - प्रथम - सम्पद एव, नान्यसम्पदोऽसाधारणरूपा हेतु सम्पत्, यतोऽर्हन्तोभगवन्तः पुरुषोत्तमा उच्यन्ते यतः पुरुषोत्तमा एवं सिंहस्य धर्मान् ( निर्भयताप्रभृतिसमानधर्मान् ) भजन्ते तथा पुण्डरीकस्य ( श्वेतकमलस्य ) धर्मान् (निर्लेपता-मुक्ति-मनोहरताऽदीन् समानधर्मान् ) भजन्ते तथा गन्धहस्तिधर्मान् भजन्ते ( यथा गन्धहस्ती, यत्र यत्र विचरति तत्र तस्य मदस्य तीव्रगन्धेन स लक्ष्यते, अतः सामान्यहस्तिन एतस्यागमनेन पलायन्ते तथैव यत्र यत्र तीर्थंकर:- प्रभुविचरति तत्र तत्र तस्य पवित्रपरमाणूनां सुरभिः प्रसरति, तत्र पवित्राभि र्बलवतीभिः परमाणुवर्गणाभि:, दुर्भिक्ष- मारि-परचक्रादय उपद्रवा नश्यन्ति, सद् गन्धहस्तिधर्मान् भजन्ते ) तत एव पुरुषोत्तमेषु तत् - सिंहादिधर्मवत्त्वेन, अहंत्सु भगवत्सु स्तोतव्यभाव उपपन्नो भवतीति ( एतत्सामान्यहेतूनामतीव स्पष्टत्वं कर्त्तुं पुरुषोत्तमादि पदचतुष्टयवती तृतीयोत्तर हेतु ( विशेषहेतु) सम्पदपि कथ्यते . )
अथ सामान्येनोपयोग - सम्पदं कथयति
तदन्यैस्तु पञ्चभिः स्तोतव्यसम्पद एव सामान्येनोपयोगसम्पत्, लोकोत्तमत्वलोकनाथत्वलोक हितत्वलोक प्रदीपत्व लोकप्रद्योत करत्वानां परार्थत्वात्,
टी०...तस्याः - असाधारणरूपहेतु सम्पदः पदेभ्योऽन्यैः पञ्चभिः पदं (लोगुत्तमाणं, लोगनाहाणं, लोगहियाणं लोगपईवाणं, लोग पज्जोअग राणं ) इति पदपञ्चकवती स्तोतव्यसम्पदः (अर्हद्भगवत् सम्बन्धिनी) एव, नान्य-संबन्धिनी, सामान्येनोपयोगसम्पत् कथ्यते, यतोऽर्हद्भगवदात्मनिष्ठानि लोकोत्तमत्व लोकनाथत्वलोक हितत्वलोक प्रदीपत्वलोक प्रद्योतक रत्वानि परार्थत्वरूपाण्येव, अस्यां सम्पदि, श्रीतीर्थंकरदेवः स्वशक्तीनां लोकस्य भिन्नभिन्नक्षेत्रेषु कीदृशमुपयोगं विदधाति, तदुपयोग दर्शकत्वेनैषा सम्पत्, तथा चार्हतां भगवतां सामान्येन सर्वलोकेषु भिन्न-भिन्नरूपेण परार्थकरणरूपोपयोगप्रवेशेन पदपञ्चकवती, चतुर्थी सामान्येनोपयोगसम्पदुच्यते इति.
28