________________
ललितविस्तरा सटीका
इह चाद्यालापकद्वयेन स्तोतव्यसम्पदुक्ता, यतोऽर्हतामेव भगवतां स्तोतव्ये सम निबन्धनं,
टी०... (१) 'इह च ' नमोत्थुणं स्तोते प्रथमालापक - पदद्वयेन, चैत्यवंदनभाष्यापेक्षया नत्थूणं अरिहंताणमित्येकं पदं 'भगवंताण' मिति द्वितीयं पदमिति द्विपदवती स्तोतव्यसम्पद्विशेया तथा प्रवचनसारोद्धारापेक्षया 'अरिहंताणं' इत्येकं पदं, भगवंताण' मिति द्वितीयं पदमेवं द्विपदी स्तोतव्यसंपज्ज्ञेया यतो 'नमोत्थुणं' मिति कर्तृ क्रियावाचकपदं सम्पन्मध्ये न गण्यते, पूर्वोक्ता द्विपदी सम्पत्-स्तोतव्यसम्पदस्ति, यतः सर्वे पूजनीयप्रकाराः - धर्माश्च गुणा अर्हत्सु -भगवत्सु विद्यन्ते, अर्हतां भगवतां स्तोतव्ये - स्तोतव्यत्वे ( भावनिर्देशे ) सति समग्रं - सम्पूर्ण निबन्धनं- मूलकारणम् अथवाऽर्हतां भगवतां स्तोतव्यत्वं विशेष्यीकृत्य समग्रं नितरां बन्धनं वाक्यरचनारूपं सम्पत्स्वरूपं विद्यतेऽथवाSद्भगवद्रूपपदद्वयवती स्तोतव्यसम्पदेव समस्तानां सम्पदां निबन्धनं- मूलभूताऽऽलम्बनमस्तीतिः सम्पदित्युक्ते कः पारिभाषिकोऽर्थः ? इत्यत्त्रोच्यते महापदरूपा, अर्थाधिकारविशेषरूपा, विश्रामरूपा, यतिरूपा वा 'पायसमा उसासा' इति वचनात् पादसमानं - एकश्वासोश्वासकालप्रमाणं, गाथायाएकपादोच्चारणकालप्रमाणशब्दानां पदानां वाक्यम्, गाथाया एकपादप्रमाणा संपदित्यर्थः, सूत्रेऽस्मिन् व्याप्रियमाणप्रत्येक संपदा भिन्नभिन्नविषयप्रतिपादकानि स्तोतव्यसंपदादिकानि नामानि प्रदर्शितानि सन्ति.
(१) तथा चार्हद्भगवद्रूपा आत्मानः (परमात्मानः) सदा स्तोतव्या एव तत्राहंत्ता भगवत्ता च भावं भजते, अर्थात् स्तुतियोग्यानां अर्हतां भगवतां निर्देश:, अस्यां संपदि भवत्यतोऽस्याः संपदो नाम 'स्तोतव्य-संपद्'
अथ हेतु संपदं निर्दिशति =
तदन्यैस्तु त्रिभिः स्तोतव्यसम्पद एव प्रधाना साधारणासाधारणरूपा हेतुसम्पद् यत: आदिकरणशीला एव तीर्थकरत्वेन स्वयंसम्बोधितश्चैते भवन्ति,
पं०..‘साधारणासाधारणरूपेति' सर्व्वजीवः साधारणमादिकरत्वं, मोक्षापेक्षया आदौ भने सर्वजी-वानां जन्मादिकरणशीलत्वात्, तीर्थंकरत्वस्वयं संबोधावसाधारणी, अर्हतामेव भवतः 'एते' इति अर्हन्तो भगवन्तः ।
टी०...(२) 'तदन्यैस्तु' स्तोतव्यसम्पत्पदेभ्योऽन्यंः 'त्रिभिरानापकैः' - पदैः 'आइगराणं' तित्थयराणं सयंसंबुद्धाणमिति त्रिभिः पदैः' स्तोतव्यसम्पत्संबन्धिनी, अत एव प्रधाना मुख्या, साधारणासाधारणरूपा (गुणरूपा ) हेतुसम्पत् ( ओघहेतु सम्पदित्यप रसंज्ञावती) साधारणासाधारण हेतुघटना = सर्व जीवेषु, आदिकरत्वस्य व्यापकत्वात् साधारणं - सामान्यं यतो मोक्षाऽवस्थापेक्षया आदौ - पूर्वस्मिन् भवेभवे सर्वजीवानां जन्मादिप्रपञ्चकरणस्वभावोऽस्ति तत आदिकरत्वं सर्वजीवसाधारणम् (१)
127