________________
ललितविस्त-सटीका
दोषकारकं ( हानिप्रदं भवति, तद्धिताय न देयमिति वरं एतद्विषये साक्षिवचनं 'अत्यन्ताऽशान्तमतिमेति शास्त्र विषयकसद्भाव - सदाशय - सद्रहस्यस्य प्रतिपादनं दोषायैव यथा नवीन उदयमागते ज्वरे शमनीयमौषधदानम् दोषाय तथातापि ज्ञेयम् ।
तथा च यस्य कस्यचिज्ज्वरिणो ज्वरशमनाय दत्तमपि प्रारम्भे, औषधं विपरीतं भवति, तथापि ज्वरस्य समयपरिपाकानन्तरं ज्वरः शाम्यति, औषधमपि लाभप्रदं भवति परन्तु समयपरिपाकात् प्रागौषधमपि गुणदं न भवति, एवं वात्माऽपि संसारे जन्मादिचक्रे भ्राम्यन् २ दु: खक्लेशतापादिना खिद्यमानश्च मोक्षमभिलषन्, स्वभावतः कालतश्च भवस्थितिपरिपाकं भजन्, अत एवोत्तमधर्मरूपौ - पधमप्यन्तिमपुद्गल परावत्तं कालप्राप्तायात्मने दत्तं गुणकारकं भवति, अन्यस्मै दत्तं दोषाय जायते, एवं शब्दप्रपंचरूप विस्तरेण कृतमिति.
अधिकारिण उद्दिश्य प्रस्तुताभिधानम् -:
अधिकारिण एवाधिकृत्य पुरोदितान् अपक्षपातत एवं निरस्येतरान् प्रस्तुतमभिधीयत इति ।
टी०... पूर्वोक्तान्, अपुनर्बन्धका दीनधिकारिण: ( शुद्धदेशनाया विषयीकृत्य ) अधिकृत्य समुद्दिश्य, पक्षपातं-भेदभावमकृत्वैव 'इतरान्' - अनधिकारि-भूतान् भवाभिनन्दिनः क्षुद्रसत्त्वान् 'निरस्य' अनुद्दिश्य - दूरीकृत्य - शुद्धदेशनाया अविषयीकृत्य प्रस्तुतं - प्रस्तावायातं चैत्यवंदनसूत्रधीयते - अभिधाविषयीक्रियते ।
" इत्येवमधिकारिताया यथार्थनिरूपणानन्तरं चैत्यवंदनसूत्रव्याख्यारंभात् प्राक् चैत्यवंदनादौ किं वक्तव्यम् ? तस्य च को विधिरिति तन्निरूपयति शास्त्रकारः ।
इह प्रणिपात वण्डपूर्वकं चैत्यवंदनमिति स एवादौ व्याख्यायते
टी०... ' इह' चैत्यवंदनविधिप्रसंगेऽत्र 'प्रणिपातदण्डपूर्वकं' प्रणिपातदण्ड: ( शक्रस्तवः, तीर्थंकरदेवानां नमस्कारकारकसूत्रत्वेन ( नमोत्थुणसूत्रं ) 'सव्वे तिविहेण वंदामीति यावत्, एतदन्तस्यैव वर्णगणनस्यैव वृद्धसम्प्रदायेन प्रणिपातदण्डकतया रूढत्वात् ' ) पूर्वो यस्मिंस्तत्त् प्रणिपातदण्डपूर्वकं चैत्यवंदन - मिति विधिनियमवत्त्वेन ' स एव' स - प्रणिपातदण्ड ( शक्रस्तवः - नमोत्थुणसूत्रं ) प्रथमतः - आरम्भे, व्याख्यायते
आदौ - चैत्ववंदनसूत्र व्याख्यानस्य
एवकारेणाऽन्यनिषेधो ज्ञेयः, विवरण विषयी क्रियते ।
तत्र चायं विधिः
इह साधुः श्रावको वा चैत्यगृहादावेकान्तप्रयतः परित्यक्तान्यकर्त्तव्यः प्रदीर्घतरतद्भावगमनेत यथासम्भवं भुवनगुरोः सम्पादितपूजोपचारः, ततः सकलसत्त्वानपायिनीं भुवं निरीक्ष्य परमगुरुप्रणीतेन विधिना प्रमु क्षितिनिहितजानुकरतलः प्रवर्द्धमानातितीव्रतरशुभ
24