________________
१२६
ललितविस्तगसंस्कृतटीका
तस्य वा यन्माहात्म्यं तद् वन्दे, अथवा तस्य वन्द इति तद्वन्दनं करोमि, तथा ह्यागमवन्त एव मर्यादां धारयन्ति, किंभृतस्य ?-प्रकर्षेण स्फोटितं मोहजालं-मिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन्सति विवेकिनो मोहजालं विलयमुपयाति-इति ॥ इत्थं श्रुतमभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेणाप्रमादगोचरतां प्रतिपादयन्नाह-" जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स । को देवदाणवनरिंदगणच्चिअसस्स, धम्मस्स सारमुवलब्भ करे पमायं ॥३॥” अस्य व्याख्या-जातिः-उत्पत्तिः जरा-वयोहानिलक्षणा मरणं-प्राणनाशः शोकः-मानसो दुःखविशेषः, जातिश्च जरा च मरणं च शोकश्चेति द्वन्दः, जातिजरामरणशोकान् प्रणाशयति-अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम्-आरोग्यं कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कल-सम्पूर्ण न च तदल्पं, किन्तु ? विशालं-विस्तीर्णं सुखं-प्रतीतं, कल्याणं पुष्कलं विशालं सुखमावहति प्रापयति कल्याणपुष्कलविशालसुखावहः तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रसाधकत्वमाह, कः प्राणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्मस्य सारं सामर्थ्य उपलभ्य दृष्ट्वा विज्ञाय कुर्यात्प्रमाद सेवेत ?, सचेतसश्चारित्रधर्मे प्रमादः कत्तुं न युक्त इति हृदयं, आह--सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चितस्येति किमर्थम् ?, उच्यते, प्रस्तुतभावान्वयफलतन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य